Wednesday, 3 September 2025

NCERT Class 8 Sanskrit Chapter 1 Question Answer Solutions संगच्छध्वं संवदध्वम्

Students rely on NCERT Solutions for Class 8 Sanskrit and Class 8th Sanskrit Deepakam Chapter 1 Question Answer संगच्छध्वं संवदध्वम् to clarify their doubts after class.

Sanskrit Class 8 Chapter 1 Question Answer संगच्छध्वं संवदध्वम्

Class 8 Sanskrit Chapter 1 NCERT Solutions संगच्छध्वं संवदध्वम्

कक्षा 8 संस्कृत पाठ 1 के प्रश्न उत्तर संगच्छध्वं संवदध्वम्

अभ्यासात् जायते सिद्धिः (पृष्ठ 7–8)

१. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च ।
सञ्ज्ञानसूक्त का सस्वर पाठ करें, याद करें और लिखें।
उत्तरम् :
विद्यार्थी स्वयं करें।

२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) सर्वेषां मनः कीदृशं भवेत् ?
(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः ?
(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः ?
(घ) अस्मिन् पाठे का प्रेरणा अस्ति ?
उत्तराणि :
(क) सर्वेषां मनः समानं भवेत् ।
(ख) अस्य अभिप्रायः अस्ति यद् मिलित्वा अग्रे गच्छत, एक-स्वरेण वदत ।
(ग) सर्वे वैमनस्य परित्यज्य ऐक्यभावेन जीवेयुः ।
(घ) अस्मिन् पाठे एकतायाः प्रेरणां अस्ति ।

३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- रेखांकित पदों के आधार पर प्रश्ननिर्माण करें।
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
_____________________________
उत्तराणि :
कः सर्वत्र व्याप्तः अस्ति?

(ख) वयम् ईश्वरं नमामः ।
_____________________________
उत्तराणि :
वयम् कम् नमाम: ?

(ग) वयम् ऐक्यभावेन जीवामः ।
_____________________________
उत्तराणि :
वयम् कथम् जीवामः ?

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते ।
_____________________________
उत्तराणि :
कस्य प्रार्थनया शान्तिः प्राप्यते ?

(ङ) अहं समाजाय श्रमं करोमि ।
_____________________________
उत्तराणि :
अहं कस्मै श्रमं करोमि?

(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।
_____________________________
उत्तराणि :
अयं पाठः कस्मात् सङ्कलितः ?

(छ) वेदस्य अपरं नाम श्रुतिः ।
_____________________________
उत्तराणि :
कस्य अपरं नाम श्रुति: ?

(ज) मन्त्राः वेदेषु भवन्ति।
_____________________________
उत्तराणि :
मन्त्राः केषु / कुत्र भवन्ति ?

४. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत-
पट्टिका से शब्द चुनकर निम्नलिखित मन्त्रों में रिक्तस्थान पूरा करें-

संवदध्वं, समितिः, आकूति:, भागं, मन:, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि

(क) सङ्गच्छध्वं ____________ सं वो ____________ जानताम्।
देवा ____________ यथा पूर्वे सं ____________ उपासते।
उत्तराणि :
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सं जानाना उपासते ।

(ख) समानो ‘मन्त्रः ____________ समानी समानं ____________ सह चित्तमेषाम् ।
____________ मन्त्रमभिमन्त्रये वः समानेन वो ____________ जुहोमि ।
उत्तराणि :
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।

(ग) समानी व ____________ समाना ____________ वः।
समानमस्तु वो ____________ यथा वः ____________ ।
उत्तराणि :
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति

५. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत-
पाठ में प्रयुक्त शब्दों का भाव के अनुसार मेल करें-
NCERT Class 8 Sanskrit Chapter 1 Question Answer Solutions संगच्छध्वं संवदध्वम् 1

(क) संगछध्वम् सेवन्ते
(ख) संवदध्वम् चित्तम्
(ग) मनः मिलित्वा चलत
(घ) उपासते सङ्कल्पः
(ङ) वसूनि समस्तानि
(च) विश्वानि एकस्वरेण वदत
(छ) आकूति: धनानि

उत्तराणि :

(क) संगछध्वम् मिलित्वा चलत
(ख) संवदध्वम् एकस्वरेण वदत
(ग) मनः चित्तम्
(घ) उपासते सेवन्ते
(ङ) वसूनि धनानि
(च) विश्वानि समस्तानि
(छ) आकूति: सङ्कल्पः

६. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
उदाहरण के अनुसार लट् लकार के वाक्यों को लोट्
लकार में परिवर्तित करें-
यथा – बालिकाः नृत्यन्ति – बालिकाः नृत्यन्तु।
(क) बालकाः हसन्ति – ______________
(ख) युवां तत्र गच्छथः – ______________
(ग) यूयं धावथ – ______________
(घ) आवां लिखावः – ______________
(ङ) वयं पठामः – ______________
उत्तराणि :
(क) बालकाः हसन्तु ।
(ख) युवां तत्र गच्छतम्।
(ग) यूयं धावत।
(घ) आवां लिखाव ।
(ङ) वयं पठाम।

योग्यताविस्तारः

  1. वेदाः – ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेदः ।
  2. ब्राह्मणानि – ऐतरेयः, शतपथ:, सामविधानं, गोपथः, इत्यादयः।
  3. उपनिषदः (प्रसिद्धा:) – ईश, केन, कठ, प्रश्नः, मुण्डकः, माण्डूक्यः, ऐतरेयः, तैत्तिरीयः, छान्दोग्यः, बृहदारण्यकः, इत्यादयः।
  4. उपवेदाः – आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थवेद: / स्थापत्यवेदः ।
  5. वेदोपाङ्गानि / षड् दर्शनानि – न्यायः, वैशेषिकं, साङ्ख्यं, योग:, पूर्व-मीमांसा, उत्तर – मीमांसा (वेदान्तः)।
  6. वेदाङ्गानि – शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पः।

ऋग्वेदः –
ऋग्वेदे मन्त्राणां सङ्ख्या – दश सहस्राणि, पञ्च शतानि, द्विपञ्चाशत् च (१०,५५२) मन्त्राः सन्ति। अस्य ग्रन्थस्य विभजनं द्विधा भवति-
१. मण्डलक्रमः – ( १० मण्डलानि, ८५ अनुवाकाः, १,०२८ सूक्तानि)
२. अष्टकक्रमः – (८ अष्टकाः, प्रत्यष्टकम् ८ अध्यायाः, आहत्य ६૪ अध्यायाः)

अस्य पाठस्य आधारः – ऋग्वेदस्य अन्तिमस्य दशम-मण्डलस्य, अन्तिमम् एकशताधिकएकनवतितमं (१०. १९१) सूक्रम् अस्ति, यत् ‘संज्ञान-सूक्तम्’, ‘संघटन-सूक्तम्’ वेति नामभ्यां प्रसिद्धम् अस्ति।

परियोजनाकार्यम्

१. अस्य सूक्तस्य भावार्थं मित्रै: सह मातृभाषया चर्चयत।
२. संज्ञानसूक्तम् इव ऋग्वेदस्य पञ्चानां सूक्तानां नामानि लिखत।
३. संज्ञानसूक्तस्य आधारेण भवत्सु एकतां स्थापयितुं विविधान् उपायान् अध्यापकै: सह आलोचयत।

अत्र इदम् अवधेयम्

1. सामान्यतया गम्-धातुः परस्मैपदी अस्ति । यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति ।
अर्थः-सामान्यतः गम् धातु परस्मैपदी है। जब ‘सम्’
उपसर्ग से युक्त ‘गम्’ धातु होता है, तब उसके आत्मनेपदीरूप होते हैं।
यथा— गम् + ति = गच्छति।
सम् + गच्छति = सङ्गच्छते ।

2. गम्-धातोः लोट्-लकारस्य रूपाणि पश्यामः-
NCERT Class 8 Sanskrit Chapter 1 Question Answer Solutions संगच्छध्वं संवदध्वम् 2
आत्मनेपदम्
NCERT Class 8 Sanskrit Chapter 1 Question Answer Solutions संगच्छध्वं संवदध्वम् 3

लोट्-लकारः
आज्ञार्थे भवति।
आज्ञार्थ में होता है।

यथा – छात्राः ! यूयम् उतिष्ठत । यूयम् उपविशत।

आमन्त्रणार्थे भवति ।
आमन्त्रण अर्थ में होता है।
यथा – भवन्तः आगच्छन्तु। सार्धं क्रीडामः ।

आशीर्वादार्थे भवति ।
आशीर्वाद अर्थ में होता है।
यथा- आयुष्मान् भव । विजयी भव । शिवास्ते पन्थानः सन्तु।

3. अस्मद् – युष्मद्-शब्दयोः द्वितीया – चतुर्थी – षष्ठी – विभक्तिषु वैकल्पिकरूपाणि भवन्ति ।
अस्मद्-युष्मद् शब्दों के द्वितीया, चतुर्थी और षष्ठी विभक्तियों में वैकल्पिक रूप भी होते हैं।
यथा-
अस्मद्-
द्वितीया विभक्ति:-
शाधि माम् त्वां प्रपन्नम्।
शाधि मा त्वा प्रपन्नम्।

चतुर्थी विभक्तिः-
देहि मे वरदे वरम्।
देहि मह्यं वरदे वरम्।

षष्ठी विभक्ति:-
त्वमेव सर्वं मम देवदेव।
त्वमेव सर्वं मे देवदेव ।

युष्मद्- द्वितीया विभक्ति:-
अहं त्वा मोक्षयिष्यामि ।
अहं त्वां मोक्षयिष्यामि।

चतुर्थी विभक्ति:-
नमः तुभ्यम् (नमस्तुभ्यम्) ।
नमः ते (नमस्ते)।

षष्ठी विभक्तिः –
शिष्यः तव अहम्।
शिष्यः ते अहम्।

The post NCERT Class 8 Sanskrit Chapter 1 Question Answer Solutions संगच्छध्वं संवदध्वम् appeared first on Learn CBSE.



from Learn CBSE https://ift.tt/s7RmACl
via IFTTT