Students rely on NCERT Solutions for Class 8 Sanskrit and Class 8th Sanskrit Deepakam Chapter 11 Question Answer सन्निमित्ते वरं त्यागः (ख-भागः) to clarify their doubts after class.
Sanskrit Class 8 Chapter 11 Question Answer सन्निमित्ते वरं त्यागः (ख-भागः)
Class 8 Sanskrit Chapter 11 NCERT Solutions सन्निमित्ते वरं त्यागः (ख-भागः)
कक्षा 8 संस्कृत पाठ 1 के प्रश्न उत्तर सन्निमित्ते वरं त्यागः (ख-भागः)
अभ्यासात् जायते सिद्धिः (पृष्ठ 131–135)
१. निम्नलिखितेषु वाक्येषु रक्तवर्णीयानि स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ।
__________________________________
उत्तराणि :
क: पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ?
(ख) ततस्ते सर्वे सर्वमङ्गलायाः आयतनं गताः ।
__________________________________
उत्तराणि :
ततस्ते सर्वे कस्याः आयतनं गताः?
(ग) वीरवरः वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत्।
__________________________________
उत्तराणि :
वीरवरः वर्तनस्य निस्तारं केन / कथम् अकरोत् ?
(घ) राजा स्वप्रासादं प्राविशत् ।
__________________________________
उत्तराणि :
राजा कुत्र प्राविशत् ?
(ङ) महीपतिः वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत्।
__________________________________
उत्तराणि :
महीपतिः कस्मै समग्र कर्णाटप्रदेशम् अयच्छत्?
२. अधोलिखितान् प्रश्नान् उत्तरत-
(क) वीरवरः किम् अवर्णयत् ?
उत्तराणि :
वीरवर : अखिलराजलक्ष्मीसंवादम् अवर्णयत्।
(ख) प्राज्ञः धनानि जीवितञ्च केभ्यः उत्सृजेत् ?
उत्तराणि :
प्राज्ञः धनानि जीवितं च परार्थे उत्सृजेत् ।
(ग) केन सदृशः लोके न भूतो न भविष्यति ?
उत्तराणि :
वीरवरेण सदृशः लोके न भूतो न भविष्यति ।
(घ) का अदृश्या अभवत्?
उत्तराणि :
भगवती सर्वमङ्गला अदृश्या अभवत्।
(ङ) सपरिवारः वीरवरः कुत्र गतवान्?
उत्तराणि :
सपरिवारः वीरवरः स्वगृहं गतवान्।
३. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
उदाहरणम्-धन्यः अहम् स्वामिजीवितरक्षार्थं विनियुक्तः । – शक्तिधराय
(क) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा ।
उत्तराणि :
नृपाय / राज्ञे
(ख) वत्स! अनेन ते॒ सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि ।
उत्तराणि :
नृपाय / राज्ञे
(ग) धन्याहं यस्या ईदृशो जनको भ्राता च ।
उत्तराणि :
वीरंवत्यै
(घ) तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् ।
उत्तराणि :
नृपस्य/शूद्रकाय/राज्ञे
(ङ) अयम् अपि सपरिवारो जीवतु ।
उत्तराणि :
वीरवराय/राजपुत्राय ।
४. उदाहरणानुसारं अन्वयरूपेण लिखत-
यथा-
कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण । गृहीतस्वामिवर्तनस्य निस्तारो मया स्वपुत्रोत्सर्गेण कृतः ।
(क) नेदानीं राज्यभङ्गस्ते भविष्यति ।
__________________________________
उत्तराणि :
इदानीं ते राज्यभङ्गः न भविष्यति ।
(ख) तेन पातितं स्वशिरः स्वकरस्थखड्गेन।
__________________________________
उत्तराणि :
तेन स्वकरस्थखड्गेन स्वशिरः पातितम्।
(ग) तदा ममायुः शेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च ।
__________________________________
उत्तराणि :
तदा ममायुः शेषेणापि राजपुत्रो वीरवरः पुत्रेण पत्न्या दुहित्रा च सह जीवतु ।
(घ) तत्क्षणादेव देवी गताऽदर्शनम् ।
__________________________________
उत्तराणि :
तत्क्षणादेव देवी अदर्शनम् गता।
(ङ) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
__________________________________
उत्तराणि :
(च) जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
__________________________________
उत्तराणि :
मादृशाः क्षुद्रजन्तवः जायन्ते मिय्रन्ते च।
५. उदाहरणानुगुणम् अधोलिखितानां पदानां पदच्छेदं कुरुत-
यथा-यद्येवमस्मत्कुलोचितम् = यदि-एवम्-अस्मत्-कुलोचितम्
सत्त्वोत्कर्षेण = सत्त्व-उत्कर्षेण
(क) गृहीतस्वामिवर्तनस्य = _____________
(ख) निस्तारोपायः = _____________
(ग) गृह्यतामेष = _____________
(घ) स्वपुत्रोत्सर्गेण = _____________
(ङ) स्वकरस्थखड्गेन = _____________
(च) तदेतत्परित्यक्तेन = _____________
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = _____________
(ज) मद्दर्शनाददृश्यताम् = _____________
(झ) तत्क्षणादेव = _____________
(ञ) लब्धजीवितः = _____________
उत्तराणि :
(क) गृहीत – स्वामि-वर्तनस्य
(ख) निस्तार – उपायः
(ग) गृह्यताम्-एषः
(घ) स्वपुत्र – उत्सर्गेण
(ङ) स्वकरस्थ-खड्गेन
(च) तत्-एतत्-परित्यक्तेन
(छ) स्वशिरः-छेदनार्थम्-उत्क्षिप्तः
(ज) मत्-दर्शनात् – अदृश्यताम्
(झ) तत्-क्षणात्-एव
(ञ) लब्ध- जीवितः
६. (क) उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य सन्धियुक्तपवैः रिक्तस्थानानि पूरयत-
यथा-स्व + आवासम् = स्वावासम्
1. तत् + श्रुत्वा = _____________
उत्तराणि :
तच्छ्रुत्वा
2. दुहितरम् + च = _____________
उत्तराणि :
दुहितरञ्च
3. धन्यः + अहम् = _____________
उत्तराणि :
धन्योऽहम्
4. जीवितम् + च + एव = _____________
उत्तराणि :
जीवितञ्चैव
5. विलम्बः + तात = _____________
उत्तराणि :
विलम्बस्तात
6. कः + अधुना = _____________
उत्तराणि :
कोऽधुना
7. न + आचरितव्यम् = _____________
उत्तराणि :
नाचरितव्यम्
8. धन्या + अहम् = _____________
उत्तराणि :
धन्याहं
9. निस्तारः + उपायः = _____________
उत्तराणि :
निस्ताररुपाय
10. वीरवरः + अवदत् = _____________
उत्तराणि :
वीरवरोऽवदत्
11. ततः + असौ = _____________
उत्तराणि :
ततोऽसौ
12. ततः + ते = _____________
उत्तराणि :
ततस्ते
(ख) निम्नलिखितपदानां सन्धिच्छेदं कुरुत-
1. शूद्रकोऽपि = _____________ + _____________
उत्तराणि :
शूद्रक : + अपि
2. पुनर्भूपालेन = _____________ + _____________
उत्तराणि :
पुनः + भूपालेन
3. महीपतिस्तस्मै = _____________ + _____________
उत्तराणि :
महीपालः + तस्मै
4. प्रायच्छत् = _____________ + _____________
उत्तराणि :
प्र + अयच्छत्
5. नृपतिरपि = _____________ + _____________
उत्तराणि :
नृपतिः + अपि
6. सर्वेषामदृश्य = _____________ + _____________
उत्तराणि :
सर्वेषाम् + अदृश्य
7. वार्ताऽन्या = _____________ + _____________
उत्तराणि :
वार्ता + अन्याः
8. राज्यभङ्गस्ते = _____________ + _____________
उत्तराणि :
राज्यभङ्गः + ते
9. गतिर्गन्तव्या = _____________ + _____________
उत्तराणि :
गतिः + गन्तव्या
10. इत्युक्त्वा = _____________ + _____________
उत्तराणि :
इति + उक्त्वा
11. नेदानीं = _____________ + _____________
उत्तराणि :
न + इदानीं
12. प्रीतास्मि = _____________ + _____________
उत्तराणि :
प्रीता + अस्मि
७. अधोलिखितानि कथनानि कथायाः घटनानुसारं लिखत-
(क) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
उत्तराणि :
वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
(ख) पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
उत्तराणि :
पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत् ।
(ग) प्रातः राजा वीरवरम् अपृच्छत् ‘ह्यः रात्रौ किम् अभवत्”?
उत्तराणि :
वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्।
(घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
उत्तराणि :
सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्व समर्पणार्थं सिद्धः अभवत्।
(ङ) वीरवरेण उक्तम् – स्वामिन्! न कापि वार्ता । सा नारी अदृश्या अभवत्।
उत्तराणि :
भगवती प्रसन्ना अभवत्। भगवत्याः कृपया सर्वे जीवितवन्तः।
(च) भगवती प्रसन्ना अभवत् । भगवत्याः कृपया सर्वे जीवितवन्तः।
उत्तराणि :
प्रातः राजा वीरवरम् अपृच्छत् “ह्यः रात्रौ किम् अभवत्”?
(छ) वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्।
उत्तराणि :
वीरवरेण उक्तम् – स्वामिन् ! न कापि वार्ता । सा नारी अदृश्या अभवत्।
योग्यताविस्तारः
१. श्रोकानां पदच्छेदम् अन्वयं भावार्थं च पठत स्मरत च-
धनानि जीवितज्चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति॥ ? ॥
पदच्छेदः – धनानि जीवितम् च एव परार्थे प्राजः उत्सृजेत् सन्निमित्ते वरम् त्यागो विनाशे नियते सति।
अन्वयः – प्राजः धनानि जीवितम् चैव परार्थे उत्सृजेत्। विनाशे नियते सति सन्निमित्ते त्यागो वरम्।
भावार्थः – परोपराकार्थं बुद्धिमान् सम्पदां जीवनं च त्यक्तुं सिद्धः भवेत्। यतः शरीरस्य नाशः तु भवति एव। अतः तस्य सत्कार्यार्थं त्यागः श्रेष्ठः खलु।
जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति॥ २॥
पदच्छेदः – जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः अनेन सदृशः लोके न भूतः न भविष्यति।
अन्वयः – मादृशाः क्षुद्रजन्तवः जायन्ते च म्रियन्ते च। लोके अनेन सदृशः न भूतः न भविष्यति च।
भावार्थः – मत्सदृशाः अल्पाः जन्म मृत्युं च प्राप्नुवन्ति। एतादृशः जनः तु लोके पूर्वं न जातः न अग्रे भविष्यति च।
२. (क) सुभाषितानि पठत स्मरत च-
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदन-ताप-ताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सड्गोऽस्त्वकर्मणि॥
यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह।
विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः॥
(ख) अकर्मकधातुलक्षणम्-
धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेरविविक्षातः धातोरकर्मिका क्रिया॥
परियोजनाकार्यम्
पाठस्य कथाधारेण सरलसंस्कृतेन एकं नाटकं रचयत तस्य मञ्चनं च कुरुत।
अत्र इदम् अवधेयम्
वाच्यं त्रिविधम्।
१. कर्तृवाच्यम्
२. कर्मवाच्यम्
३. भाववाच्यम्।
कर्तृवाच्यम्
कर्तृवाच्ये वाक्ये कर्तृपदस्य प्रथमाविभक्तिः भवति क्रियापदं कर्तृपदानुसारि च भवति। अर्थात् क्रियापदस्य पुरुषः वचनं च कर्तृपदस्य अनुसारेण भवति। वाक्ये कर्मपदम् अस्ति चेत् तस्य द्वितीयाविभक्तिः भवति।
यथा-
बालक : ग्रामं गच्छति। त्वं ग्रामं
गच्छसि। अहं ग्रामं गच्छामि।
बालकाः ग्रामं गच्छन्ति। यूयं ग्रामं
गच्छथ। वयं ग्रामं गच्छामः।
कर्मवाच्यम्
कर्मवाच्ये कर्तृपदस्य तृतीया विभक्ति:, कर्मपदस्य प्रथमाविभक्ति: तथा च क्रियापदं कर्मपदानुसारि भवति। अर्थात् क्रियापदस्य पुरुषः वचनं च कर्मपदस्य अनुसारेण भवति।
यथा-
बालकेन ग्रामः गम्यते। त्वया ग्रामः गम्यते। मया ग्रामः गम्यते।
बालकेन ग्रामाः गम्यन्ते। युष्माभिः ग्रामाः गम्यन्ते। अस्माभिः ग्रामाः गम्यन्ते।
अत्र ध्यातव्यं यत् कर्मवाच्ये कर्मपदस्य प्रथमा-विभक्ति: कर्तृपदस्य च तृतीया विभक्ति: भवति। क्रियापदस्य रूपं “धातुः + य + आत्मनेपदम्” भवति।
यथा — गम् (धातु) + य + ते (आत्मनेपदप्रत्ययः) = गम्यते।
एवं पठ्यते, लिख्यते, खाद्यते इत्यादीनि यकार-सहितानि भाव-कर्मवाचकक्रियापदानि भवन्ति।
भाववाच्यम्
अकर्तृवाच्यवाक्ये यदि कर्मपदस्य अभावः भवति तर्हि भाववाच्यस्य प्रयोगः भवति। तदा कर्तृपदस्य तृतीया-विभक्तिः भवति क्रियापदस्य च केवलम् एकम् एव अपरिवर्तनीयं रूपं भवति। तत् च प्रथमपुरुषस्य एकवचनं रूपम्।
यथा-
बालकेन हस्यते। बालकै: हस्यते।
त्वया हस्यते। युष्माभिः हस्यते।
मया हस्यते। अस्माभिः हस्यते। इत्येवम्।
अत्र ध्यातव्यं यत् हस्यते इति क्रियापदं कर्तृपदानां परिवर्तने अपि अपरिवर्तनीयं भवति। इदम् अपि ध्यातव्यं यत् केचन धातवः सर्वदा अकर्मकाः भवन्ति। यथा – हस्, क्रन्द्, स्था, स्ना, शी, भू इत्यादयः।
The post NCERT Class 8 Sanskrit Chapter 11 Question Answer Solutions सन्निमित्ते वरं त्यागः (ख-भागः) appeared first on Learn CBSE.
from Learn CBSE https://ift.tt/gRmeB5r
via IFTTT
No comments:
Post a Comment