Students rely on Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 3 Question Answer आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः NCERT Solutions to clarify their doubts after class.
Sanskrit Class 9 Chapter 3 Question Answer आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
Class 9 Sanskrit Ch 3 Question Answer NCERT Solutions आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः प्रश्न उत्तर कक्षा 9
अभ्यासाद् जायते सिद्धिः
१. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) मातामही कस्य कथां श्रावितवती ?
(ख) नामदेवस्य गुरु: नामदेवं किम् अध्यापितवान्?
(ग) नामदेव: कया भावनया धावनं कृतवान्?
(घ) बालकयोः मुखे किमर्थं म्लाने संजाते ?
(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ ?
(च) तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः ?
(छ) कपिलः माधवी च कुत्र गतवन्तौ ?
(ज) ‘मातामही तं प्रसड्गं दृष्टवती, तौ आहूतवती च । ‘ इति वाक्ये ‘तौ’ इति शब्दः कस्यां विभक्तौ अस्ति?
उत्तर:
(क) मातामही पुण्यश्लोकस्य नामदेवमहाराजस्य कथां श्रावितवती।
(ख) नामदेवस्य गुरुः नामदेवं अध्यापितवान् यत्- ‘ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु’ इति ।
(ग) नामदेवः करुणया भावनया धावनं कृतवान् ।
(घ) अपराधभावनया बालकयोः मुखे ग्लाने संजायते ।
(ङ) तौ सङ्कल्पं कृतवन्तौ यत् – अस्माकं कायेन वाचा मनसा वा कस्यापि पीड़ा न भवेत् तथा च कस्यापि पीडां निवारयितुं प्रयतामहे ।
(च) ‘तम्’ इति सर्वनामशब्द: शुनकस्य कृते प्रयुक्तः ।
(छ) कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
(ज) ‘तौ’ इति शब्दः द्वितीया विभक्तौ अस्ति ।
२. अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत-
यथा – नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति ।
नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान्।
(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति ।
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति ।
(ग) गुरु: विसोबा तम् अध्यापयति।
(घ) अहं शृणोमि।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।
(च) नामदेव : शुनकस्य पृष्ठे अनुधावति ।
उत्तर:
(क) नैवेद्यं विग्रहस्य पुरतः स्थापितवान् ।
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।
(ग) गुरु: बिसोबा तम् अध्यापितवान्।
(घ) अहं श्रुतवान् / श्रुतवती ।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः।
(च) नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।
३. अधोलिखितानि कथनानि कः / का/कं / कां च प्रति कथयति इति लिखत-

उत्तर:

(क) कथां श्रोतुम् इच्छतः वा? – मातामही – कपिलं माधवीं च प्रति।
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति । – माधवी – मातामहीं प्रति।
(ग) किं देवेन सह अपि मित्रता सम्भवति? – कपिलः – मातामहीं प्रति ।
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु। – गुरुः बिसोबा – नामदेव प्रति।
(ङ) नैवेद्यं गृह्यतां देव-भक्तिं मे ह्यचलां कुरु। – मातामही – कपिलं माधवीं च प्रति।
(च) धिक् शुनकम्। – कपिलः – मातामहीं प्रति ।
(छ) नामदेवस्य कियत् दुःखं माधवी जातं स्यात् खलु? – माधवी – कपिलं प्रति।
(ज) किं घृतपात्रम् आधृत्य ? – कपिलः माधवी च, मातामहीं प्रति।
(झ) अद्य अहं ज्ञातवान् यत् कपिलः सर्वेषु ईश्वरः निसति इति । – कपिलः – मातामहीं प्रति ।
(ञ) उत्तीर्णः भवान् परीक्षाम् । – पाण्डुरङ्गः, नामदेवं प्रति।
![]()
४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
यथा- पाण्डुरङ्गः नामदेवस्य मित्रम् आसीत्।
पाण्डुरङ्गः कस्य मित्रम् आसीत्?
(क) देवः नामदेवं परितः भवति स्म।
(ख) ईश्वरः सर्वेषु भूतेषु निवसति ।
(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान् ।
(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।
उत्तर:
(क) देवः कं परितः भवति स्म ?
(ख) ईश्वरः केषु निवसति ?
(ग) शुनकः आगत्य मुखे कां धृत्वा धावितवान्?
(घ) शुनकस्य स्थाने कः आविर्भूतवान् ?
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति सः कः ?
५. घटनाक्रमानुसारं लिखत-
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान् ।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(च) नामदेव मन्दिरं गतवान् ।
उत्तर:
(च) नामदेवः मन्दिरं गतवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरड्गः आविर्भूतवान्।
६. कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत-
आगच्छन्तु, पायसं कुर्मः
आगच्छन्तु, पायसं कुर्मः । …………. (क्षीर) सह तण्डुलाः पक्वाः। ……….. (शर्करा) विना कथं शक्यते । शीघ्रमेव ……….. (आपण) प्रति गत्वा शर्कराम् आनयतु। ………
(आपण) निकषा वाहनानि तिष्ठन्ति । शर्करा महानसे स्थापिता । ………. (शर्करा) परितः पिपीलिकाः आगताः । पिपीलिकाः अपनीय पायसे शर्करा योजिता । …….. (मधुर) विना पायसं रुचिकरं न भवति । अधुना ……….. (पायस) परितः बालक-बालिकावृन्दं तिष्ठति । धिक् ………. (अन्ये मधुरपदार्थाः) इति एकः वदति, ……. (तत्) विना जीवनम् अपूर्णम् इति अपरः । …….. (पायस) सह एव भोजनं सरसम् इति अन्यः । तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहास : विलसति ।
उत्तर:
आगच्छन्तु, पायसं कुर्मः । क्षीरेण (क्षीर) सह तण्डुलाः पक्वाः। शर्करां (शर्करा) विना कथं शक्यते । शीघ्रमेव आपणं (आपण) प्रति गत्वा शर्कराम् आनयतु । आपणं (आपण) निकषा वाहनानि तिष्ठन्ति । शर्करा महानसे स्थापिता । शर्करां (शर्करा) परित: पिपीलिका: आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता । मधुरं (मधुर) विना पायसं रुचिकरं न भवति । अधुना पायसं (पायस) परितः बालक-बालिकावृन्दं तिष्ठति । धिक् अन्यान् मधुरपदार्थान् (अन्ये मधुरपदार्थाः) इति एकः वदति, तेन (तत्) विना जीवनम् अपूर्णम् इति अपरः। पायसेन (पायस) सह एव भोजनं सरसम् इति अन्यः । तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।
७. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत-
कञ्चित् ग्रामं निकषा एका नदी आसीत् । नदी सर्वदा स्वच्छजलम् अददात् । जनाः तस्याः जलं पीत्वा सुखेन अजीवन्। एकः कृषकः तेन जलेन सर्वदा कृषिम् अकरोत् । कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन्। महिलाः पर्वसमये नदीम् अपूजयन् । एकवारं कश्चित् परिवारः नद्यां मालिन्यानि अक्षिपत् । क्रमशः अन्ये अपि अक्षिपन्। तेन नदी मलिना अभवत्, मीना: अम्रियन्त । स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् अवदत् । सा नदीतीरम् आगत्य स्वयं वृक्षम् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् अकुर्वन् । सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुन: नदी स्वच्छा जाता निर्मलं जलं च अददात्। ततः आरभ्य वर्षे एकवारं जनाः नदीम् अपूजयन् वृक्षरोपणं च अकुर्वन् ।
उत्तर:
कञ्चित् ग्रामं निकषा एका नदी आसीत्/असितवती । नदी सर्वदा स्वच्छजलम् दत्तवती । जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः । एक: कृषकः तेन जलेन सर्वदा कृषिम् कृतवान् । कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः । महिला: पर्वसमये नदीम् पूजितवत्यः । एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान् । क्रमशः अन्ये अपि क्षिप्तवन्तः । तेन नदी मलिना अभवत्, मीनाः मृतवन्तः। स्त्रियः रोगैः पीडिताः भूतवत्यः । तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती। सा नदीतीरम् आगत्य स्वयं वृक्षम् रोपितवती । महिला: अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् कृतवत्यः। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः। पुनः नदी स्वच्छा जाता निर्मलं जलं च दत्तवती । ततः आरभ्य वर्षे एकवारं जना: नदीम् पूजितवन्तः वृक्षरोपणं च कृतवन्तः।
८. एतेषां समस्तपदानि पाठात् चित्वा लिखत-

यथा-महान् आत्मा, तेषां महात्मनाम्
(क) घृतस्य पात्रम्, तत् …………………………..
(ख) पाषाणस्य खण्डः, तम् …………………………..
(ग) प्रियः सुहृद् …………………………..
(घ) उदरे वेदना …………………………..
(ङ) स्वीयः व्यवहारः …………………………..
(च) जीवनस्य मूल्यानि …………………………..
(छ) मातुलस्य गृहम्, तत् …………………………..
(ज) नरेषु रत्नानि इव, तेषाम् …………………………..
(झ) स्वीयं कर्तृत्वम्, तेन …………………………..
(ञ) अपराधस्य भावना, तया …………………………..
(ट) गुरोः उपदेश:, तम् …………………………..
(ठ) दिने दिने …………………………..
(ड) राजा ऋषि: इव, तेषाम् …………………………..
उत्तर:
(क) घृतस्य पात्रम्, तत् – घृतपात्रम्
(ख) पाषाणस्य खण्डः, तम् – पाषाणखण्डम्
(ग) प्रियः सुहृद् – प्रियसखा
(घ) उदरे वेदना – उदरवेदना
(ङ) स्वीयः व्यवहारः – स्वव्यवहारः
(च) जीवनस्य मूल्यानि – जीवनमूल्यानि
(छ) मातुलस्य गृहम्, तत् – मातुलगृहम्
(ज) नरेषु रत्नानि इव, तेषाम् – नररत्नानाम्
(झ) स्वीयं कर्तृत्वम्, तेन – स्वकर्तृत्वेन
(ञ) अपराधस्य भावना, तया – अपराधभावनया
(ट) गुरो: उपदेश:, तम् – गुरूपदेशम्
(ठ) दिने दिने – प्रतिदिनम्
(ड) राजा ऋषिः इव, तेषाम् – राजर्षीणाम्
![]()
स्वाध्यायान्मा प्रमदः
१. ‘क्तवतु’- प्रत्ययान्तशब्दानां पुंलिङ्गे रूपाणि वयं पश्याम:-

२. ‘ क्तवतु’ – प्रत्ययान्तशब्दानां स्त्रीलिङ्गे रूपाणि वयं पश्याम:-

३. ‘क्तवतु’- प्रत्ययान्तशब्दानां नपुंसकलिङ्गे रूपाणि वयं पश्यामः-

पाण्डुरङ्गः
पाण्डुरङ्गस्य एव विट्ठल, विठोबा, पण्ढरीनाथ, विठुमाऊली च इत्यादीनि बहूनि नामानि सन्ति । महाराष्ट्रस्य सोलापुरजनपदे पण्ढरपुरम् इति प्रसिद्धं तीर्थक्षेत्रं वर्तते। तच्च चन्द्रभागानद्याः तीरे विराजमानमस्ति। वारकरीसम्प्रदायस्य आराध्यं दैवतम् अस्ति पाण्डुरङ्गः। सः इष्टिकायां समचरणः स्थितः वर्तते। हस्तौ कट्यां संस्थाप्य भक्तानां रक्षणार्थम् अहं सर्वदा कटीबद्धः अस्मीति सः भक्तान् सूचयति।
विषयप्रबोधनम्
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
अन्वयः–हे देव! नैवेद्यं गृह्यताम् । शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् । भक्तिं हि अचलां मे कुरु । ईप्सितं वरं मे देहि । परत्र च परां गतिं देहि ।
उत्तर:
छात्रा स्वयं करिष्यन्ति ।
यस्तु क्रियावान् मनुजः स विद्वान्
१. स्वप्रदेशे विद्यमानानां द्वित्राणां महात्मनां चित्राणि संकलयत । तेषां विषयकं विवरणं पञ्चषैः वाक्यैः च लिखत। उदाहरणम्-
छत्तीसगढ़प्रान्तस्य गिरौदपुरी – ग्रामे गुरु- घासिदासमहाराजस्य जन्म जातम्। ‘मनखे मनखे एक समान’ अर्थात् सर्वे मनुष्याः समानाः सन्ति इति तस्य उपदेशः आसीत् । समाजस्थां विषमतां दूरीकृत्य समानताम् आनेतुं घासिदासः महाराजः महान्तं प्रयत्नं कृतवान्। अस्माभिः न केवलं सर्वैः मनुष्यैः सह अपि तु सर्वैः जीवै: सह अपि वत्सलतया व्यवहरणीयम् इति सः उपदिशति स्म। सतनामी इति सम्प्रदायस्य सः संस्थापकः आसीत्।
उत्तर:
स्वामी विवेकानन्दः
- स्वामी विवेकानन्दस्य जन्म कोलकाता नगरे अभवत् ।
- सः भारतीयसंस्कृतेः महान् प्रचारकः आसीत् ।
- “उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत” इति तस्य मुख्यः सन्देशः आसीत्।
- सः रामकृष्ण मिशन संस्थायाः संस्थापकः आसीत् ।
- तस्य विचाराः अद्यापि युवानं प्रेरयन्ति।
छत्रपति शिवाजी महाराज:
- शिवाजी महाराज : एक: कुशलः शासक: वीरयोद्धा च आसीत्।
- सः ‘स्वराज्य’ स्थापनायाः संकल्पं कृतवान् ।
- महिलानां सम्मानं तस्य प्रधानं कर्तव्यम् आसीत् ।
- सः प्रजावत्सलः आसीत्।
- तस्य साहसिककार्याणि अस्मान् गौरवान्वितं कुर्वन्ति ।
२. पाठे आगतानि क्तवतुप्रत्यययुतानि वाक्यानि संगृह्य तादृशानि अन्यानि वाक्यानि लिखत ।
यथा- कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
रामः लक्ष्मणः च सीतया सह वनं गतवन्तौ ।
उत्तर:
- छात्राः विद्यालये पाठं पठितवन्तः ।
- सा महिला मधुरं गीतवती ।
- भक्ताः मन्दिरे देवं पूजितवन्तः ।
- बालकः कन्दुकं गृहीतवान् ।
३. गुलावराव-महाराजः सन्तकवि – भीमभोई चेति एतयोः महापुरुषयोः विषये पञ्चभिः वाक्यैः दशभिः वाक्यैः वा वर्णयित्वा शिक्षकान् दर्शयत।

उत्तर:
गुलावराव – महाराजः
- गुलावराज – महाराज: महाराष्ट्रस्य महान् सन्तः आसीत्।
- सः बाल्यकालात् एव नेत्रहीनः आसीत् परंतु परम ज्ञानी आसीत्।
- सः ‘मधुरभक्ति’ संप्रदायस्य प्रर्वतकः आसीत् ।
- तेन अनेके आध्यात्मिकग्रन्थाः लिखिताः ।
- सः वेदान्तस्य आधुनिकः व्याख्याता मन्यते।
सन्त कवि भीमभोई
- भीमभोई ओडिशा राज्यस्य प्रसिद्धः सन्तः कविः आसीत्।
- सः ‘महिमा धर्म’ इत्यस्य प्रचारकः आसीत् ।
- “प्राणिङ्क आरत दुःख देखु केबा सहु” इति तस्य सुप्रसिद्धं वचनम्।
- सः मानवतावादस्य महान् परस्कर्ता आसीत्।
- तस्य कवितासु सामाजिक समानतायाः भावः दृश्यते।
Class 9th Sanskrit Chapter 3 आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः Question Answer
संस्कृत कक्षा 9 पाठ 3 आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः के प्रश्न उत्तर
पठितावबोधनम्
१. अधोलिखितान् गद्यांशान् / काव्यांशान् / नाट्यांशान् पठित्वा प्रश्नान् उत्तरत-
1. भारतदेशः बहूनां ब्रह्मर्षीणां महात्मनां च भूमिः । तेषां चरित्राणि सकलस्य विश्वस्य कृते प्रेरणास्पदम्। तेषां चरित्रेषु प्रतिपदं भूतदया, समता, क्षमा, अहिंसा, करुणा, ऋजुता, बन्धुता चेत्यादीनि जीवनमूल्यानि प्राप्यन्ते । महाराष्ट्रस्य प्रसिद्धः महात्मा नामदेवमहाराजः स्वीयव्यवहारेण करुणायाः महान्तम् आदर्शम् उपस्थापितवान्। सः सर्वात्मकस्य ईश्वरस्य न केवलं सङ्कीर्तनं कृतवान् अपि तु सर्वेषु जीवेषु सः भगवन्तं दृष्टवान्। नामदेवमहाराजस्य जीवनस्य काचित् शिक्षाप्रदा घटना अत्र प्रदर्शिता अस्ति यां पठित्वा अस्माकं जीवनं परिवर्तितं भवेत्।
प्रश्ना:-
I. एकपदेन उत्तरत-
- भारतदेशः कस्य भूमिः अस्ति ?
- नामदेवमहाराजः कुत्र प्रसिद्ध: ?
- नामदेवमहाराजः कं दृष्ट्वान् ?
उत्तर:
- महात्मानाम्
- महाराष्ट्रे
- भगवन्तम्
II. पूर्णवाक्येन उत्तरत-
- भारतदेशस्य महात्मानां चरित्राणि किं कुर्वन्ति ?
- नामदेवमहाराजः किम् उपस्थापितवान्?
उत्तर:
- भारतदेशस्य महात्मानां चरित्राणि सकलस्य विश्वस्य कृते प्रेरणास्पदं भवन्ति ।
- नामदेवमहाराजः स्वीयव्यवहारेण करुणायाः महत्वम् आदर्शरूपेण उपस्थापितवान् ।
III. यथानिर्देशम् उत्तरत-
(i) ‘विश्वस्य’ रतिपदस्य विशेषणपदं किम् ?
(क) बालकानाम्
(ख) सकलस्य
(ग) कृते
(घ) तेषां
उत्तर:
(ख) सकलस्य
(ii) ‘उपस्थापितवान्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) क्रोधस्य
(ख) नामदेवमहाराजः
(ग) लोभस्य
(घ) महात्मा
उत्तर:
(ख) नामदेवमहाराजः
(iii) ‘ऋजुता’ इत्यस्य पदस्य कः अर्थः ?
(क) मित्रम्
(ख) राजानम्
(ग) सरलता
(घ) शत्रुम्
उत्तर:
(ग) सरलता
![]()
2. कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ । तत्र क्रीडावेलायां कञ्चन शुनकं दृष्टवन्तौ । तं दृष्ट्वा पाषाणखण्डं हस्ते स्वीकृत्य तं मारयितुं धावितवन्तौ । शुनकः भयेन आक्रोशं कुर्वन् वेगेन धावितवान्। तत् दृष्ट्वा कपिलः माधवी च उच्चैः हसितवन्तौ । मातामही तं प्रसङ्गं दूरात् दृष्टवती, तौ आहूतवती च ।
प्रश्ना:-
I. एकपदेन उत्तरत-
- कपिलः कुत्र गतवान्?
- तौ कं दृष्टवन्तौ?
- कपिलः माधवी च कदा मातुलगृहं गतवन्तौ ?
उत्तर:
- मातुलगृहम्
- शुनकम्
- अवकाशकाले
II. पूर्णवाक्येन उत्तरत-
- कपिल: माधवी च कुत्र गच्छत:?
- शुनकः किं कृत्वा धावितवान्?
उत्तर:
- कपिल: माधवी च अवकाशकाले मातुलगृहं गच्छतः।
- शुनकः भयेन आक्रोशं कृत्वा वेगेन धावितवान्।
III. यथानिर्देशम् उत्तरत-
(i) ‘कपिल: माधवी च अवकाशकाले मातुलगृहं गतवन्तौ’ अत्र क्रियापदं किम् ?
(क) विद्यालयकाले
(ख) अवकाशकाले
(ग) गतवन्तौ
(घ) प्रात:काले
उत्तर:
(ग) गतवन्तौ
(ii) ‘करे’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) गजम्
(ख) अश्वम्
(ग) हस्ते
(घ) सिंहम्
उत्तर:
(ग) हस्ते
(iii) ‘मन्देन ‘ इति पदस्य विलोमपदं किम् ?
(क) भयेन
(ख) कुर्वन
(ग) वेगेन
(घ) उच्चैः
उत्तर:
(ग) वेगेन
3. शर्कराखण्डखाद्यानि दधिक्षीरंघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।।
प्रश्ना:-
I. एकपदेन उत्तरत-
- के नैवेद्यं प्रतिगृह्यताम् ?
- क: आहारः प्रतिगृह्यते ?
- शर्कराखण्डद्रव्याणि किम् ?
उत्तर:
- देवा:
- नैवेद्यम्
- आहार:
II. पूर्णवाक्येन उत्तरत-
- केषां नैवेद्यं प्रस्तुतम् अस्ति ?
- के के पदार्थाः नैवेद्यरूपेण अर्प्यन्ते?
उत्तर:
- देवतानां कृते नैवेद्यं प्रस्तुतम् अस्ति।
- शर्कराखण्डद्रव्याणि, दधि, क्षीरभूतानि च नैवेद्यरूपेण अर्प्यन्ते।
III. यथानिर्देशम् उत्तरत-
(i) ‘दधि’ शब्दस्य अर्थः कः ?
(क) दूध
(ख) तक्रं
(ग) घी
(घ) पानी
उत्तर:
(ख) तक्रं
(ii) ‘वरं’ इति पदस्य विशेषणपदं किम् ?
(क) जलम्
(ख) ईप्सितं
(ग) फलम्
(घ) परां
उत्तर:
(ख) ईप्सितं
(iii) ‘में’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) भोजनाय
(ख) देवतायै
(ग) वराय
(घ) नामदेवाय
उत्तर:
(घ) नामदेवाय
4. माधवी – पाण्डुरङ्गः आगत्य भक्षितवान् किल ?
मातामही – न हि। कश्चन बुभुक्षितः शुनकः आगत्य रोटिकां मुखे गृहीत्वा धावितवान् ।
कपिलः – धिक् शुनकम् ! मातामहि! पश्यतु, शुनकाः दुष्टाः एव भवन्ति ।
माधवी – सत्यं भ्रातः ! नामदेवस्य कियत् दुखं जातं स्यात् खलु।
मातामही – पुत्रकौ, शृणुताम्। नामदेवः शुनकस्य पृष्ठे अनुधावितवान्। जानीतः किमर्थं कथं च?
प्रश्ना:-
I. एकपदेन उत्तरत-
- कः रोटिकां गृहीत्वा धावितवान् ?
- शुनकः कीदृशः आसीत ?
- नामदेवः कस्य पृष्ठे अनुधावितवान्?
उत्तर:
- शुनकः
- बुभुक्षितः:
- शुनकः
II. पूर्णवाक्येण उत्तरत-
- शुनकः किं कृत्वा धावितवान् ?
- नामदेवः किमर्थं शुनकस्य पृष्ठे अनुधावितवान्?
उत्तर:
- शुनकः रोटिकां मुखे गृहीत्वा धावितवान्।
- नामदेवः शुनकस्यं पृष्ठे रोटिकां प्राप्तुम् अनुधावितनान्।
III. यथानिर्देशम् उत्तरत-
(i) ‘शुनकः’ इत्यस्य पदस्य कः अर्थः ?
(क) गजः
(ख) कुक्कुरः
(ग) अश्वः
(घ) विडालः
उत्तर:
(ख) कुक्कुरः
(ii) शुनकः रोटिकां गृहीत्वा धावितवान् अत्र कर्तृपदं किम्?
(क) फलम्
(ख) जलम्
(ग) शुनकः
(घ) क्षीरम्
उत्तर:
(ग) शुनकः
(iii) ‘बुभुक्षितः’ इति पदस्य विशेष्यपदं किम् ?
(क) मुखे
(ख) शुनकाः
(ग) शुनकः
(घ) रोटिकां
उत्तर:
(ग) शुनकः
२. रेखांङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) भारतदेश: बहूनां ब्रह्मर्षीणां भूमिः अस्ति ।
(ख) नामदेवमहाराजः महाराष्ट्रस्य प्रसिद्धः महात्मा आसीत्।
(ग) कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ ।
(घ) तौ शुनकं मारयितुं धावितवन्तौ ।
(ङ) शुनकः भयेन आक्रोशं कृतवान्।
(च) मातामही तं प्रसङ्गः दृष्टवती ।
(छ) नामदेवः शुनकस्य पृष्ठे अनुधावति ।
(ज) सर्वेषु जीवेषु भगवन्तं दृष्टवान्।
(झ) नामदेवः हस्ते घृतपात्रं गृहीतवान्।
(ञ) तस्य कीर्तने देवः पाण्डुरङ्गः नृत्यं कृतवान्।
उत्तर:
(क) भारतदेश: बहूनां केषां भूमिः अस्ति ?
(ख) कः महाराष्ट्रस्य प्रसिद्ध: महात्मा आसीत्?
(ग) कपिलः माधवी च कदा मातुलगृहं गतवन्तौ ?
(घ) तौ कं मारयितुं धावितवन्तौ ?
(ङ) शुनकः केन आक्रोशं कृतवान्?
(च) का तं प्रसङ्गं दृष्टवती ?
(छ) नामदेवः कस्य पृष्ठे अनुधावति ?
(ज) सः केषु भगवन्तं दृष्टवान्?
(झ) नामदेव: हस्ते किं गृहीतवान् ?
(ञ) तस्य कीर्तने कः नृत्यं कृतवान्?
३. मञ्जूषातः उचितपदानि चित्वा अन्वयं पूरयत-
(क) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
मञ्जूषा : गृह्यतां, अचलां, वरं, परां
अन्वयः – हे देव! (इदं) नैवेद्यं ……..(i)……….., मे भक्तिं च हि ………(ii)…….. कुरु। मे ईप्सितं ……… (iii) ……. देहि, परत्र च …….(iv)…….. गतिं (देहि) ।
उत्तर:
(i) गृह्यतां
(ii) अचलां
(iii) वरं
(iv) परां
(ख) शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।।
मञ्जूषा : खाद्यानि च, आहारं, नैवेद्यं
अन्वयः – शर्करा – खण्ड …….(i)……… दधि-क्षीर- घृतानि ……….(ii)……… (तथा अन्य) भक्ष्य – भोज्यं ………(iii) …….. च (इदं) ……..(iv)…… प्रतिगृह्यताम्।।
उत्तर:
(i) खाद्यानि
(ii) च
(iii) आहारं
(iv) नैवेद्यं
४. मञ्जूषातः उचितपदानि चित्वा भावार्थं पूरयत-
(क) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ।।
मञ्जूषा : अर्पितं, अन्तःकरणे, प्रयच्छ, परलोके
भावार्थ:- हे प्रकाशरूपस्य देव! मया ……….(i)………… इदं नैवेद्यं (भोज्यं) कृपया स्वीकुरु । मम …….(ii)……….. स्वविषयिणीं भक्तिं सदैव स्थिरां (अचला) कुरु । हे भगवन्! मह्यं अभिलषितं वरं ……(iii)…….. तथा च इहलोकानन्तरं …….(iv)…….. उत्तमां गतिं (मोक्षं) चं प्रदानं कुरु ।
उत्तर:
(i) अर्पितं
(ii) अन्तःकरणे
(iii) प्रयच्छ
(iv) परलोके
(ख) शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्।।
मञ्जूषा : दधि, अत्र, मया, नैवेद्यं
भावार्थ:- हे देव ! शर्करायाः खण्डैः (मिश्रितानि) मिष्टान्नानि, ……..(i)…….., दुग्धं, घृतं च …….(ii)……. सन्ति। एतत् सर्वं चर्वणयोग्यं (भक्ष्यं) तथा च निगरणयोग्यं (भोज्यं) च अस्ति । ……(iii)…….. प्रीत्या निवेदितं एतं आहाररूपं ……(iv)……. कृपया प्रतिगृह्यताम् (स्वीक्रियताम्)।
उत्तर:
(i) दधि
(ii) अत्र
(iii) मया
(iv) नैवेद्यं
![]()
५. उचितं मेलनं कुरुत-

उत्तर:

६. मञ्जूषातः उचितपदानि अवचित्य रिक्तस्थानानि पूरयत-
मञ्जूषा : ब्रह्मर्षीणां, भूतदया, करुणायाः, मातुलगृहं, भयेन, प्रियसुहृत्
(क) भारतदेश: बहूनां …………. महात्मनां च भूमिः ।
(ख) तेषां चरित्रेषु प्रतिपदं ……… समता क्षमा च प्राप्यन्ते।
(ग) नामदेवमहाराजः स्वीयव्यवहारेण ………. महान्तम् आदर्शम् उपस्थापितवान्।
(घ) कपिलः माधवी च अवकाशकाले गतवन्तौ।
(ङ) शुनकः ……. आक्रोशं कुर्वन वेगेन धावितवान् ।
(च) देवः पाण्डुरङ्गः नामदेवस्य …….. आसीत्।
उत्तर:
(क) ब्रह्मर्षीणां
(ख) भूतदया
(ग) करुणायाः
(घ) मातुलगृहं
(ङ) भयेन
(च) प्रियसुहृत्
७. घटनाक्रमानुसारं मेलनं कुरुत-

उत्तर:

८. प्रदत्तपदानाम् एकपदेन लिखत-
(क) मातुः भ्राता
(ख) पुण्यः श्लोकः (चरित्र) यस्य सः
(ग) पाषाणस्य खण्डम्
(घ) शिक्षां प्रददाति इति
(ङ) जीवनस्य मूल्यानि
(च) मातुलस्य गृहम्
उत्तर:
(क) मातुलः
(ख) पुण्यश्लोकः
(ग) पाषाणखण्डम्
(घ) शिक्षाप्रदा
(ङ) जीवनमूल्यानि
(च) मातुलगृहम्
९. मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

(क) सकलस्य ………
(ख) अहिंसा ……….
(ग) समता ……….
(घ) प्रसिद्धः ……….
(ङ) उच्चैः ……….
(च) दूरात् ……….
(छ) सत्यम् ……….
(ज) प्रियः ……….
(झ) श्रद्धया ……….
(ञ) निमील्य ……….
उत्तर:
(क) एकदेशस्य / अपूर्णस्य
(ख) हिंसा
(ग) विषमता
(घ) अप्रसिद्धः
(ङ) शनै:
(च) समीपात्
(छ) असत्यम्
(ज) अप्रियः
(झ) अश्रद्धया
(ञ) उद्घाट्य
१०. अधोलिखितानि वाक्यानि कथाक्रमानुसारेण लिखत-
(क) धावन् शुनकः अदृश्यः जातः, तस्य स्थाने पाण्डुरङ्गः आर्विभूतः ।
(ख) कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ ।
(ग) नामदेवः घृतपात्रं गृहीत्वा शुनकस्य पृष्ठे अनुधावितवान्।
(घ) मातामही बालकाभ्यां नामदेवस्य कथां श्रावितवती ।
(ङ) बुभुक्षितः शुनकः मन्दिरात् रोटिकां गृहीत्वा धावितवान्।
(च) क्रीडावेलायां तौ कञ्चन शुनकं पाषाणखण्डेषु मारयितुं धावितवन्तौ।
उत्तर:
(ख) कपिल: माधवी च अवकाशकाले मातुलगृह गतवन्तौ।
(च) क्रीडावेलायां तौ कञ्चन शुनकं पाषाणखण्डेषु मारयितुं धावितवन्तौ ।
(घ) मातामही बालकाभ्यां नामदेवस्य कथां श्रावितवती ।
(ङ) बुभुक्षितः शुनकः मन्दिरात् रोटिकां गृहीत्वा धावितवान्।
(ग) नामदेवः घृतपात्रं गृहीत्वा शुनकस्य पृष्ठे अनुधावितवान्।
(क) धावन् शुनकः अदृश्यः जातः, तस्य स्थाने पाण्डुरङ्गः आर्विभूतः।
The post Class 9 Sanskrit Chapter 3 Question Answer आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः appeared first on Learn CBSE.
from Learn CBSE https://ift.tt/4CNT6G0
via IFTTT
No comments:
Post a Comment