Monday, 1 June 2026

Apathit Gadyansh in Sanskrit with Answers Class 9

Students rely on Class 9 Sanskrit Solutions and Apathit Gadyansh in Sanskrit with Answers Class 9 to clarify their doubts after class.

संस्कृत अपठित गद्यांश कक्षा 9 – Apathit Gadyansh Class 9 Sanskrit

Class 9 Sanskrit Apathit Gadyansh

Sanskrit Unseen Passage for Class 9 – Sanskrit Apathit Gadyansh Class 9

अपठितावबोधनम् 

अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त-

1. गोदावरीतीरे विशालः शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्च । प्रातःकाले चित्रग्रीवनामा कपोतराजः सपरिवार: आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः । भ्रदमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारितं कर्म न कर्तव्यम् ।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोतः सदर्पमाह-आः ! किमेवमुच्यते-
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्॥
एतदाकर्ण्य सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन् । यतो हि – बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते ।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(क) आपत्काले केषां वचनं ग्राह्यम्?
(ख) विशालः शाल्मलीतरुः कुत्रासीत्?
(ग) व्याधः कान् विकीर्य प्रच्छन्नो भूत्वा स्थित: ?
(घ) सर्वथा कीदृशं कर्म न कर्तव्यम् ?
उत्तर:
(क) वृद्धानां
(ख) गोदावरीतीरे
(ग) तण्डुलान्
(घ) अविचारितम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) कपोतराजः कान् प्रत्याह?
(ख) के कदा क्लिश्यन्ते?
उत्तर:
(क) कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह ।
(ख) लोभमोहिताः जाले च निबद्धाः सर्वे कपोताः क्लिश्यन्ते ।

प्रश्न 3.
भाषिककार्यम्-
(क) ‘विशालः शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम् ?
(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत ।
(ग) ‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपदं चित्वा लिखत ।
(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
उत्तर:
(क) विशाल:
(ख) आह
(ग) पक्षिणः
(घ) तरुणः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘अविचारितं कर्म न कर्त्तव्यम्’ / वृद्धानां वचनं ग्राह्यम्।

2. समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिकः महत्त्वपूर्णः मूल्यवान् च वर्तते अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धुं शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते ।
जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति – व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थकं समयं यापयन्ति । इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे गृहे अटन्ति । ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्यं कुर्वन्ति । न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति, ‘निरर्थकं भवति । भूमिरपि एतादृशानां निष्क्रियाणां भारं वोढुं नेच्छति । ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति । ते यत्र यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते । पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः ।
अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः ।

प्रश्न 1.
एकपदेन उत्तरत-
(क) पितरौ एतादृशान् कान् नाभिनन्दत: ?
(ख) क: विनष्टः परावर्तयितुं न शक्यते ?
(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः ?
उत्तर:
(क) तनयान्
(ख) समयः
(ग) भूमि:
(घ) आलस्यम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) केषां जन्म निरर्थकं भवति ?
(ख) अन्येषां वस्तूनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
उत्तर:
(क) ये जनाः इतस्तत: भ्रमन्ति, परार्थाय किञ्चित् कार्यं न कुर्वन्ति। न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति, तेषां जन्म निरर्थकं भवति ।
(ख) अन्यानि वस्तूनि विनष्टानि पुनः अपि लब्धुं शक्यन्ते परं समयः विनष्टः न केनापि उपायेन पुनः परावर्तयितुं शक्यते। अतः अन्येषां वस्तूनाम् अपेक्षया समयः अधिक: महत्त्वपूर्णः मूल्यवान् च।

प्रश्न 3.
भाषिक-कार्यम्-
(क) ‘यावान् कालः निरर्थकः गतः सः गतः एव’ इति वाक्ये अव्ययपदं किम् इति चित्वा लिखत ।
(ख) ‘सदुपयोगः’ इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
(ग) ‘अनेके जना:’ इत्यत्र विशेष्यपदं किम् ?
(घ) ‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम् ?
उत्तर:
(क) एव
(ख) दुरुपयोग
(ग) जना:
(घ) तनयान्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘समयस्य सदुपयोगः कर्त्तव्यः’।

3. जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत् । तस्य पुत्रः धनेशः विद्वान् पितृभक्तश्चासीत् । सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समयः गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्- हे धनेश! किं जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्यं करिष्यसि ? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रोः सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान् । अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि ।
कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत् ।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(क) धनेशः कयोः सेवायां समयं यापयति स्म?
(ख) कः विद्वान् पितृभक्तश्चासीत्?
(ग) कः धनेशं जीवनस्य अभिप्रायम् अपृच्छत्?
(घ) आचार्यस्य नाम किम् आसीत्?
उत्तर:
(क) पित्रोः
(ख) धनेश:
(ग) नगेन्द्रः
(घ) जयदेवः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) धनेशस्य समयः कथं गच्छति स्म ?
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यं किम् उदतरत्?
उत्तर:
(क) धनेशस्य समयः पित्रोः सेवायाम् अध्ययने च एव गच्छति स्म।
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्–“भो मित्र !” किं त्वं पित्रोः सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि।”

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘तस्य पुत्रः धनेश:’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ख) ‘श्रुत्वा’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(ग) ‘पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्’ अत्र क्रियापदं चित्वा लिखत।
(घ) ‘मातु:’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
उत्तर:
(क) जयदेवाय
(ख) निशम्य
(ग) आस्ताम्
(घ) पितुः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘पित्रोः सेवया एव विज्ञानम्’ ।

4. अमर्त्यसेनः इति नाम एव संस्कृतमयम् । अस्य जन्म शान्तिनिकेतने अभवत् । शान्तिनिकेतनस्य संस्थापकः गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्- ‘अमर्त्यसेनः’ इत्येतत् पदं संस्कृतमूलम् । शान्तिनिकेतने वसन् अमर्त्यसेनः संस्कृताभ्यासं कृतवान्। सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थं स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकीं महतीं गवेषणाम् अकरोत्। अध्यापन-कार्यं समाप्य श्रीअमर्त्यसेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विदूत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मानं दत्तवान् । जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च ।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(क) अमर्त्यसेनस्य जन्म कुत्र अभवत्?
(ख) अमर्त्यसेनाय ‘भारतरत्नम्’ इति सम्मानं कः दत्तवान्?
(ग) अमर्त्यसेनः उच्चशिक्षार्थं कुत्र अगच्छत् ?
(घ) अमर्त्यसेनः कुत्र संस्कृताभ्यासं कृतवान्?
उत्तर:
(क) शान्तिनिकेतने
(ख) भारत – सर्वकारः
(ग) आंग्लदेशम्
(घ) शान्तिनिकेतने

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथः ठाकुरः किम् उक्तवान्?
(ख) अध्यापनसमये सः किं कृतवान्?
उत्तर:
(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथः उक्तवान्, ‘अमर्त्यसेनः’ इत्येतत् पदं संस्कृतमूलम्।”
(ख) अध्यापनसमये सः अर्थशास्त्रविषयकीं महतीं गवेषणाम् अकरोत् ।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘अस्य जन्म शान्तिनिकेतने अभवत्।’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ख) ‘अमर्त्यसेनः संस्कृताभ्यासं कृतवान्।’ गद्यांशेऽस्मिन् कर्तृपदं चित्वा लिखत।
(ग) ‘अगच्छत्’ इति क्रियापदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(घ) ‘महतीं गवेषणाम्’ अत्र विशेषणपदं किम्?
उत्तर:
(क) अमर्त्यसेनाय
(ख) अमर्त्यसेनः
(ग) प्रत्यावर्तत
(घ) महतीं

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम् ।
उत्तर:
‘अर्थशास्त्री अमर्त्यसेनः’

5. विगतसप्ताहे अस्माकं विद्यालयपक्षतः शैक्षणिक- यात्राप्रसङ्गे वयम् उज्जयिनीं प्रति अगच्छाम । उज्जयिनी भारतस्य इतिहास-धर्म-दर्शन-कला-साहित्य- योग – ज्योतिषादीनां च केन्द्रम् अस्ति। अत्र स्थितस्य महाकालेश्वरस्य कारणेनापि अस्याः विशिष्टं महत्त्वम् । एषा अवन्तिका, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णशृंगा इति नामभिरपि शास्त्रेषु वर्णिता ।
अत्रत्या वेधशालाऽपि अतिविशिष्टा। जनाः वेधशालां ‘यन्त्रभवनम्’ इत्यपि वदन्ति। इयम् आंग्लभाषायाम् ‘आब्जर्वेटरी’ इत्यपि कथ्यते। शैक्षणिकयात्राप्रसंगात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्। एषा वेधशाला उज्जयिन्याः दक्षिणभागे क्षिप्रायाः उत्तरतटे उन्नतभूभागे स्थिताऽस्ति । कर्करेखा इतः एव निर्गता । इदं स्थानं गणितस्यापि आधारस्थलम् ।
अष्टादशशताब्द्यां राज्ञा जयसिंहेन ज्योतिषानुरागवशात् वेधशालायाः निर्माणं कारितम् । ग्रहाणां प्रत्यक्षवेधनाय जयसिंहः उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्। वस्तुतः वेधशालां वीक्ष्य मनसि गौरवमनुभवामि यत् प्राचीनकालेऽपि अस्माकं पूर्वजानां गणितस्य ग्रहनक्षत्राणाञ्च ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(क) वेधशाला कस्याः उत्तरतटे स्थिता अस्ति?
(ख) विद्यालयपक्षतः वयं कुत्र अगच्छाम ?
(ग) वेधशालायाः एकम् अपरं नाम लिखत ?
(घ) वेधशाला कस्य आधारस्थलम्?
उत्तर:
(क) क्षिप्रायाः
(ख) अमर्त्यसेनः
(ग) यन्त्रभवनम्
(घ) महतीं

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) जयसिंह : कुत्र – कुत्र वेधशालानां निर्माणम् अकारयत्?
(ख) उज्जयिनी केषां केन्द्रम् वर्तते?
उत्तर:
(क) जयसिंह : उज्जयिन्याम्, काश्याम्, देहल्याम्, जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्।
(ख) उज्जयिनी भारतस्य इतिहास – धर्म – दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रं वर्तते।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘दृष्ट्वा’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम् ?
(ख) ‘उत्तरभागे’ इति पदस्य विपरीतार्थपदम् अनुच्छेदात् चित्वा लिखत ।
(ग) ‘शैक्षणिकयात्राप्रसङ्गात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्’–अत्र ‘अस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(घ) ‘अस्माकं पूर्वजानां ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्’ इत्यस्मिन् वाक्ये विशेष्यपदं किम् ?
उत्तर:
(क) वीक्ष्य
(ख) दक्षिणभागे
(ग) वेधशालायै
(घ) ज्ञानम्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम् ।
उत्तर:
‘उज्जयिन्याः वेधशाला’ ।

6. पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति । नवतिः एकड – परिमितं बृहदाकारकम् इदमुपवनम् । अत्र शताधिक वर्षेभ्यः प्राचीनाः पादपाः सन्ति । तेषुवटवृक्षः अश्वत्थः निम्बः किंशुकः आम्रम् देवदारुः इंगुदी: सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति ।
प्रतिदिनं सहस्रशः जनाः अत्र विहाराय आगच्छन्ति । लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति ।
इदम् उपवनम् चतुर्भागेषु विभक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्पाणां शोभा दर्शकानां मनः प्रसादयति । मधुगन्धिनः भ्रमराः पुष्पेषु डयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति । अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति । अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति । कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव ।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(क) ‘लोधीगार्डन’ इति उपवनं कति भागेषु विभक्तम् ?
(ख) भ्रमराः कुत्र डयन्ते?
(ग) रुग्णाः जनाः किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति ?
(घ) केषां शोभा दर्शकानां मनः प्रसादयति ?
उत्तर:
(क) चतुर्भागेषु
(ख) पुष्पेषु
(ग) उपवने भ्रान्त्वा
(घ) पुष्पाणाम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) ‘लोधी-गार्डन’ इति नामके उपवने के प्रमुखाः वृक्षाः सन्ति?
(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि लिखत ।
उत्तर:
(क) ‘लोधी गार्डन’ इति नामके उपवने अश्वत्थः, निम्बः, किंशुकः, आम्रम्, देवदारुः, इंगुदीः, सिंसपाः, आमलकवृक्षः, बिल्वः अर्जुनः च प्रमुखाः वृक्षाः सन्ति ।
(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि पाटलम्, नवमल्लिका, उत्पलम्, जपाकुसुमम्, शेफालिका, बकुलपुष्पम्, रजनीगन्धा यूथिका च सन्ति ।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।
(ख) ‘मधुगन्धिनः भ्रमरा: ‘ अत्र किं विशेषणपदं प्रयुक्तम् ?
(ग) ‘स्वस्था:’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(घ) ‘सहस्रशः जनाः भ्रमणाय आगच्छन्ति’ अत्र कर्तृपदं किम्।
उत्तर:
(क) पञ्चदश
(ख) मधुगन्धिनः
(ग) रुग्णा:
(घ) जना:

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम् ।
उत्तर:
प्रसिद्धम् उपवनम् ‘लोधी गार्डन’।

7. “अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया ।” पुत्र्याः इदं वचः निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानुजः क्रीडनाय बहिर्गच्छति स्म तदा अहं स्वपितृभ्यां गृहकार्यार्थं पठनार्थं चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाहे शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्। परमद्यापि एका कुण्ठा मनसि यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तमं प्रदर्शनं कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्यः नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति । कः दोषः आसीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्। अस्तु तावत् ! चिन्तयाऽलम् । अहं पुत्र्यै तादृश्यः सर्वाः सुविधाः अवश्यमेव प्रदास्यामि येन तस्याः मनसि एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्।

प्रश्न 1.
एकपदेन उत्तरत-
(क) रमा काभ्यां गृहकार्यांर्थं पठनार्थं च प्रेरिता?
(ख) रमा कस्यै सर्वाः सुविधाः प्रदास्यति?
(ग) रमायाः पुत्री केन सह क्रीडितुं बहिर्गच्छति ?
(घ) रमा कस्य निर्वाहे श्रेष्ठा अभवत्?
उत्तर:
(क) स्वपितृभ्यां
(ख) पुत्र्यै
(ग) अनुजेन देवेशेन
(घ) गृहस्योत्तरदायित्वनिर्वाहे

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) पुत्र्याः किं वचः निशम्य रमा स्वशैशवं प्राप्ता?
(ख) रमायाः मनसि यदा कदा कीदृशी कुण्ठा जायते ?
उत्तर:
(क) “अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुम् बहिः गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदम् वचः निशम्य रमा स्वशैशवं प्राप्ता अभवत्।
(ख) रमायाः मनसि यदा-कदा एका कुष्ठा जायते यत् सा पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तमं प्रदर्शनं कर्तुं समर्थः न अभवत् ।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्’–अत्र किं विशेष्यपदम्?
(ख) ‘मत्सदृश्यः नार्यः वायुयानं चालयन्ति’ इति वाक्ये किं कर्तृपदम् ?
(ग) ‘द्वारं पिधेहि कृपया’ अत्र किं क्रियापदम्?
(घ) ‘अस्तु तावत्’ अनयोः पदयोः किम् अव्ययपदम् ?
उत्तर:
(क) कुण्ठायाः
(ख) नार्यः
(ग) पिधेहि
(घ) तावत्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम् ।
उत्तर:
‘रमाया: कुष्ठा’ पुत्र्याः कृते समानाधिकाराः।

8. नकुलः प्रतिदिनं प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्वं दृष्ट्वा आह भवतः । पुत्रं बोधयितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि न शृणोति । एकदा पुत्रं प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्यां सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातुः एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्दं मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात् । मातः ! कर्तव्याकर्तव्यमपि विस्मृतं मया । दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्- ‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातुः वात्सल्यमयेन बोधनेन नकुलः दुर्जनसंसर्गं त्यक्तुं दृढ़निश्चयं करोति।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(क) ‘धिङ् मम जीवितम्’ इति का वदति?
(ख कौ आहतौ भवतः?
(ग) माता पुत्रं किं त्यक्तुम् अकथयत्?
(घ) नकुल: मित्राणि प्रति किं वक्तुमिच्छति स्म ?
उत्तर:
(क) नकुलस्य माता
(ख) पितरौ
(ग) दुर्जनसंसर्गम्
(घ) न

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) नकुल: मित्रैः सह किं किं करोति स्म ?
(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति ?
उत्तर:
(क) नकुलः मित्रैः सह मद्यपानं धूम्रपानम् अपि च करोति स्म खाद्याखाद्यं च खादति स्म ।
(ख) स्नेहेन लालयन्ती माता पुत्रं बोधयति यत् दुर्जनसंसर्गम् त्यज एवं समानशीलव्यसनेषु चैव सख्यं करणीयम् इति ।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति’- अत्र किमव्ययपदम्?
(ख) ‘साश्रुनयन: पुत्र वदति’ – अत्र किं विशेषणपदम् ?
(ग) ‘अनेकशः’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम् ?
(घ) गद्यांशे ‘शत्रून्’ इति पदस्य किं विलोमपदं प्रयुक्तम्?
उत्तर:
(क) अद्यत्वे
(ख) साश्रुनयनः
(घ) मित्राणि
(ग) बहुधा

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम् ।
उत्तर:
‘दुर्जनसंसर्गं न करणीयम्’।

9. एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनिं श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा रुदन्निव वदति स्म, ह्यः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दुःखितोऽहम्। काष्ठानि नीत्वा सः तु आपणं गतवान् परं न कोऽप्यस्त्यत्र योऽस्य व्रणानामुपचारं करोतु । किमर्थं विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठ-विक्रयणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति । काष्ठविक्रयेण केवलमेकवारमेव एकस्यैव लाभः जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति । फलौषधीनां प्राप्तिरपि दुर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्तं भविष्यति । इदं सर्वं श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत-
(क) काष्ठहार : किं श्रुत्वा तिष्ठति ?
(ख) वृक्षस्य वार्तां श्रुत्वा काष्ठहारः कीदृशः अभवत्?
(ग) काष्ठहारः काष्ठानि नीत्वा कुत्र गतवान्?
(घ) वृक्षाः कस्य शुद्धीकरणाय भवन्ति ?
उत्तर:
(क) वृक्षध्वनिं
(ख) खिन्नमनः
(घ) वायोः
(ग) आपणं

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) वृक्षः किमर्थं दुःखितः आसीत्?
(ख) वृक्षाणां कर्तनेन केषां महत्त्वं विलुप्तं भविष्यति?
उत्तर:
(क) वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा दुःखितः आसीत् यतः एकः काष्ठहारः काष्ठाय तस्य मित्रस्य शरीरम् अच्छिनत्। छेदनेन वृक्षस्य शरीरे व्रणान् दृष्ट्वा अतीव दुःखितः आसीत् ।
(ख) वृक्षाणां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वम् विलुप्तम् भविष्यति।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘वृक्षः समीपस्थं वृक्षं दृष्ट्वा रुदन्निव वदति’-अस्मिन् वाक्ये किं विशेषणपदम्?
(ख) ‘आश्रिताः’ इति पदस्य कृते किं विलोमपदम् अनुच्छेदे प्रयुक्तम् ?
(ग) ‘विलोक्य’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(घ) ‘ह्यः एकः काष्ठहारः मम मित्रस्य शरीरमच्छिनत्’–अत्र किम् अव्ययपदम्।
उत्तर:
(क) समीपस्थं
(ख) निराश्रिताः
(ग) दृष्ट्वा
(घ) ह्यः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम् ।
उत्तर:
‘वृक्षकर्तनं न करणीयम् / वृक्षाः संरक्षणीयाः ‘।

10. विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति- ‘चलभाषियन्त्रम् (मोबाइल इति) ।’ अस्य मुख्यं प्रयोजनमासीत् दूरवर्तिना केनापि जनेन सह वार्तालाप: सुकरः भवेत् इति । परमद्यत्वे तु चलभाषियन्त्रं लघुसङ्गणकमिव वर्तते । एवं प्रतीयते यत् जनाः हस्ते एकं सम्पूर्णं जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्तां कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि ईमेल- फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकरं संदेशवाहकमपि ।
अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति । न केवलमेतदेव अपितु एतत् यन्त्रं मनोरञ्जनकारि अपि । बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति । परमेतदपि विचारणीयं यदस्य अधिकाधिकप्रयोगः हानिकरः भवति । ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत-
(क) किम् अतीव सुकरं सन्देशवाहकम्?
(ख) जनाः वार्तया सह साक्षात् कं पश्यन्ति?
(ग) किं प्राप्य जनाः स्वगन्तव्यं प्राप्नुवन्ति ?
(घ) अस्य अधिकाधिकप्रयोग: कीदृशः भवति ?
उत्तर:
(क) चलभाषियन्त्रम्
(ख) वक्तारम्
(ग) वाहनं
(घ) हानिकरः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) अस्य मुख्यं प्रयोजनं किमासीत्?
(ख) अस्य प्रयोगेण के कथं च मनोरञ्जनक्षमाः भवन्ति?
उत्तर:
(क) अस्य मुख्यं प्रयोजनम् आसीत् यत् दूरवर्तिना केनापि जनेन सह वार्तालाप: सुकरः भवेत्।
(ख) अस्य प्रयोगेण बालाः वृद्धाः युवानः च विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति ।

प्रश्न 3.
यथानिर्देशम् उत्तरत-
(क) ‘लब्ध्वा’ इत्यर्थे किं पदं गद्यांशेऽस्मिन् प्रयुक्तम्?
(ख) ‘केनापि जनेन सह वार्तालाप: सुकरः भवेत्’ इत्यत्र किं विशेषणपदम्?
(ग) अस्य यथावश्यकं प्रयोगः एव करणीयः’ इति अत्र किं क्रियापदम्?
(घ) ‘चलभाषियन्त्रं लघुसङ्गणकमिव वर्तते’ इति अत्र किम् अव्ययपदम्।
उत्तर:
(क) प्राप्य
(ख) सुकरः
(ग) करणीयः
(घ) इव

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘चलभाषियन्त्रम्’।

पूर्वपरीक्षाणां प्रश्नाः

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानामुत्तराणि निर्देशानुसारं लिखत-

11. तरवः सर्वेषां जीवनं सुखमयं कुर्वन्ति । तान् प्रति अस्माकम् अपि कर्त्तव्यम् वर्तते। तरूणाम् आरोपणाय, तेषां संवर्धनाय संरक्षणाय च वयम् अपि प्रयत्नम् कुर्याम । पश्यामः यत् अद्यत्वे वृक्षाणां संख्या प्रतिदिनम् अल्पतरा संजायते । एषा हि शोचनीय स्थितिः । सम्प्रति हरितानां वृक्षाणां महती आवश्यकता। जीवनं वृक्षाश्रितम् खलु । वृक्षाणां जीवनेन अस्माकं जीवनम् । तेषां संरक्षणेन अस्माकं संरक्षणम् इति न विस्मृतव्यम् । अतः जीवनं रक्षितुम् वृक्षाः रक्षितव्याः ।

प्रश्ना:
प्राणिमात्रहिताय वृक्षाणां रक्षा अस्माकं परमं कर्त्तव्यम् ।

प्रश्न 1.
एकपदेन उत्तरत-
(क) के जीवनं सुखमयं कुर्वन्ति ?
(ख) केषां संख्या अल्पतरा संजायते ?
(ग) किं रक्षितुं वृक्षा रक्षितव्या: ?
(घ) केषाम् आरोपणाय प्रयत्नम् कुर्याम?

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) सम्प्रति केषां महती आवश्यकता?
(ख) अस्माकं परमं कर्त्तव्यम् किमस्ति ?

3. निर्देशानुसारम् उत्तरत-

प्रश्न 1.
‘अस्माकम् अपि कर्तव्यं वर्तते।’ अत्र ‘वर्तते’ क्रियापदस्य कर्तृपदं किमस्ति?
(क) अपि
(ख) अस्माकम्
(ग) वृक्षः
(घ) कर्तव्यम्

प्रश्न 2.
‘वृक्षाणाम्’ इति पदाय अन्यत् किं पदम् अत्र प्रयुक्तम्?
(क) तरूणाम्
(ख) सर्वेषाम्
(ग) हरितानाम्
(घ) अस्माकम्

प्रश्न 3.
‘तान्’ इति सर्वनाम् पदं केभ्यः प्रयुक्तम्?
(क) जीवनाय
(ख) सर्वेभ्यः
(ग) प्राणिभ्यः
(घ) वृक्षेभ्यः

प्रश्न 4.
‘सुखमयम्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) जीवनम्
(ख) सर्वेषाम्
(ग) तरवः
(घ) वृक्षा:

12. स्वतन्त्रतादिवसे प्रातःकाले एव नगरे-नगरे ग्रामे ग्रामे राष्ट्रियध्वजारोहणं क्रियते ।
तदनन्तरं नेतृणां भाषणानि भवन्ति । जनाः स्वगृहेषु कार्यालयेषु च राष्ट्रध्वजम् आरोहन्ति राष्ट्रस्य उन्नतये च शपथं कुर्वन्ति। राष्ट्रभक्तानां वीराणां स्मरणं क्रियते। दूरदर्शने दिल्लीनगरस्य स्वतन्त्रतादिवसस्य राष्ट्रीयकार्यक्रमः दृश्यते । तत्र प्रधानमन्त्रिणः सन्देशोऽपि श्रुतिगोचरो भवति । तत्र विशाल: जनसमूहः एकत्रितः भवति । लालकिला-दुर्गस्य उपरि निर्मितमञ्च विशिष्टाः अतिथयः उपविशन्ति । सर्वं दृश्यम् अतिरमणीयम् दर्शनीयं च भवति ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत-
(क) कदा नेतृणां भाषणानि भवन्ति?
(ख) कुत्र स्वतन्त्रतादिवसस्य कार्यक्रमः दृश्यते ?
(ग) के राष्ट्रस्य उन्नतये शपथं कुर्वन्ति?
(घ) स्वतन्त्रतादिवसे प्रात:काले किं क्रियते ?

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) जना: किं कुर्वन्ति ?
(ख) स्वतन्त्रतादिवसे केषां स्मरणं क्रियते ?

प्रश्न 3.
निर्देशानुसारम् उत्तरत-

प्रश्न 1.
‘आरोहयन्ति’ इति क्रियायाः कर्तृपदं किम् ?
(क) जना:
(ख) स्वगृहेषु
(ग) राष्ट्रध्वजम्
(घ) कार्यालयेषु

प्रश्न 2.
‘विकासः’ इति पदस्य अत्र किं पर्यायपदम्?
(क) श्रुतिगोचर:
(ख) दृश्यम्
(ग) निर्मिते
(घ) उन्नतिः

प्रश्न 3.
‘लघु’ इति पदस्य अत्र किं विलोमपदम् ?
(क) विशाल:
(ख) विकासः
(ग) सन्देशः
(घ) स्मरणम्

प्रश्न 4.
‘जनसमूह:’ अस्य विशेषणपदं गद्यांशे किं प्रयुक्तम् ?
(क) एकत्रितः
(ख) विशाल:
(ग) तत्र
(घ) भवति

13. भारतवर्षः अस्माकं देशः अस्ति । अस्य उत्तरस्यां दिशि पर्वतराज हिमालयः स्थितः अस्ति । अयं देश: हिमालयस्य पर्वतश्रेणिभिः सम्पूजितः वर्तते । एषः पर्वतः भारतस्य प्रहरी खलु । भारतस्य दक्षिणदिशायां महासागरः अस्य चरणौ प्रक्षालयति । अस्य अङके अनेकाः नदद्य क्रीडन्ति । गङगा, यमुना, शतद्रुः विपाशा, चन्द्रभागा प्रभृतयः नद्यः भारतभूमिं सिञ्चन्ति । एतासां नदीनां जलं क्षेत्राणाम् सिञ्चनाय विद्युत् उत्पादनाय च प्रयुज्यते । हिमालये विश्वस्य सर्वोच्च शिखरमस्ति । हरितानि वनानि अस्य शोभां निरन्तरं वर्धयन्ति । हिमालयः ऋषीणाम् मुनीनां च निवासस्थानं अस्ति। हिमालये अनेकानि प्रसिद्ध तीर्थस्थानानि सन्ति। जनाः तत्र देवार्चनाय मनोरञ्जनाय च गच्छन्ति ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत-
(क) पर्वतराजस्य नाम किं अस्ति ?
(ख) हिमालयस्य अङ्ङ्के काः क्रीडन्ति ?
(ग) अयं देश : हिमालयस्य काभिः सम्पूजितः वर्तते ?
(घ) भारतस्य कीदृशानि वनानि हिमालय पर्वतस्य शोभां निरन्तरं वर्धयन्ति?

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) नदीनां जलं किमर्थं प्रयुज्यते ?
(ख) का: काः नद्यः भारतभूमिं सिञ्चन्ति ?

निर्देशानुसारम् उत्तरत-

प्रश्न 1.
‘अस्य अङ्के अनेकाः नद्यः क्रीडन्ति’ अत्र नद्यः इति कर्तृपदस्य क्रियापदं किं अस्ति?
(क) अनेकाः
(ख) क्रीडन्ति
(ग) सिञ्चन्ति
(घ) वर्धयन्ति

प्रश्न 2.
‘एतासां नदीनां’ अनयोः विशेषणपदं किम्?
(क) जलम्
(ख) नदीनाम्
(ग) एतासाम्
(घ) ऋषीणाम्

प्रश्न 3.
‘अयं देशः हिमालयस्य’ अत्र अयं इति पदं कस्मै प्रयुक्तम् ?
(क) भारतवर्षाय
(ख) चरणाय
(ग) शिखराय
(घ) महासागराय

प्रश्न 4.
‘मनुष्याः’ इत्यर्थे किं पद प्रयुक्तम् ?
(क) विश्वस्य
(ख) नद्यः
(ग) जना:
(घ) पर्वताः

14. स्वामी विवेकानन्दः अमेरिकादेशे भारतीयसंस्कृत्याः प्रचारं करोति स्म। कश्चन् श्रोता उपहासपूर्वकम् उक्तवान् अहो भारतीयसंस्कृत्याः विसंगतिः । लक्ष्मयाः वाहनम् उलूकः सरस्वत्याः वाहनं हंसः इति। विवेकानन्दः अवदत्-एषः एव अस्माकं भवतां मध्ये दृष्टिभेदः धनाधीनः जनः उलूकवत् आचरति। विवेकम् आश्रितः नरः विद्वान् भवति। अतः सरस्वत्याः वाहनं हंसः, लक्ष्म्याः वाहनम् उलूकः इति ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत-
(क) विवेकानन्दः कुत्र प्रचारं करोति स्म?
(ख) लक्ष्म्याः वाहनं कः अस्ति ?
(ग) हंसः कस्याः वाहनम् अस्ति ?
(घ) कम् आश्रितं नरः विद्वान् भवति?

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) श्रोता उपहासपूर्वकम् किम् उक्तवान्?

प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत-

प्रश्न 1.
‘उक्तवान्’ अस्याः क्रियायाः कर्तृपदं किम् ?
(क) कश्चन्
(ख) श्रोता
(ग) अहो
(घ) उपहासपूर्वकम्

प्रश्न 2.
‘नर : विद्वान्’ अनयोः विशेषणपदं किम् ?
(क) नरः
(ख) संस्कृतिः
(ग) विद्वान्
(घ) नरविद्वान्

15. एकदा एका बालिका पित्रा सह मेलकं द्रष्टुं नगरं प्रति गच्छति स्म। सा चतुरमतिः धैर्यशालिनी च आसीत्। सा बाल्यकाले एवं विविधासु कलासु निपुणा आसीत्। मार्गे एका नदी आसीत्। सा नौकया गच्छति स्म। नौकायाम् अनेके जनाः आसन्। नद्यां एक: मकरः आसीत्। द्वौ जनौ तस्मात् मकरात् भीतौ जले पतितौ। सा बालिका जले अकूर्दत तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत-
(क) बालिका केन सह गच्छति स्म ?
(ख) मार्गे का आसीत् ?
(ग) नद्यां का आसीत्?
(घ) नौकायां के आसन्?

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) बालिका बाल्यकाले कीदृशी आसीत्?

प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
‘कुशलाः’ इति अर्थे गद्यांशे किं पदं प्रयुक्तम् ?
(क) निपुणा
(ख) पटवः
(ग) प्रवीणा
(घ) पारङ्गता

प्रश्न 2.
‘एक: मकर:’ अत्र विशेषणपदं किम् ?
(क) मकरः
(ख) एक:
(ग) अत्र
(घ) किम्

16. सुन्दरराज: राजदेवस्य गृहे उद्योगी आसीत् । सः राजदेवे विशेषविश्वासं प्रदर्शयति स्म। राजदेवः सीतारामनामकम् अन्यं कमपि युवकम् उद्योगे नियोजितवान्। तम् उक्तवान् च- “ सीताराम ! सुन्दरराजः दशवर्षाणि यावत् मम गृहे उद्योगित्वेन सहायकः आसीत्, तथापि सः मयि विश्वासं न स्थापितवान्। अत एव सः अत्र उद्योगं परित्यक्तवान्। उद्योगिनः स्वामिनि विश्वासं कुर्युः सदा” इति धारणा। एकदा सीतारामः सुन्दरराजं मिलित्वा अवदत् यत् “भवान् राजदेवगृहे दश वर्षाणि यावत् कार्यं कृतवान् खलु ? अतः तत्र कथं व्यवहरणीयम् इति विषये मां किञ्चित् सुस्पष्टं वदतु” इति। “राजदेवः सज्जनः । तद्विषये मया वक्तव्यं किमपि नास्ति । भवान् तत्र कमपि क्लेशं न अनुभविष्यति” इति उक्तवान् सुन्दरराजः। तच्छ्रुत्वा सीतारामः प्रसन्नतया तत्र विश्वस्तः सन् कार्यं कर्तुं प्रारभत। उक्तञ्च “विश्वासः फलदायकः महत्सु” इति ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)
(क) सुन्दरराजः कस्य गृहे उद्योगी आसीत्?
(ख) राजदेवः अन्यं कम् उद्योगे नियोजितवान्?
(ग) सुन्दरराजः कति वर्षाणि पर्यन्तं राजदेवस्य गृहे उद्योगित्वेन सहायकः आसीत्?

प्रश्न 2.
पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)
(क) सीतारामः सुन्दरराजं मिलित्वा किं कथितवान्?
(ख) राजदेवः कीदृशः व्यक्तिः आसीत्?
(ग) कः कस्योपरि विश्वासं न स्थापितवान्?

प्रश्न 3.
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।

प्रश्न 4.
यथानिर्देशम् उत्तरत। (केवलं प्रश्नत्रयम्)

प्रश्न 1.
‘असीत्’ इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) सीतारामः
(ख) सुन्दरराजः
(ग) राजदेवः

प्रश्न 2.
‘राजदेवः सज्जनः’ अनयोः पदयोः विशेषणं किम्?
(क) दुर्जन:
(ख) परिजनः
(ग) सज्जनः

प्रश्न 3.
‘कष्टम्’ इत्यस्य पदस्य कः पर्यायः अत्र आगत: ?
(क) क्लेशम्
(ख) करुणम्
(ग) असह्यम्

प्रश्न 4.
अनुच्छेदे ‘दुर्जन: ‘ पदस्य कः विपर्ययः आगतः?
(क) परिजनः
(ख) सज्जनः
(ग) विश्वास:

17. “चलभाषियन्त्रम्” वर्तमानयुगस्य जीवनम् एव वर्तते । अस्य मुख्यं प्रयोजनं दूरस्थेन जनेन सह वार्तालाप: इति, परम् अद्य अस्माकं जीवनशैली एव अनेन पूर्णतया प्रभाविता वर्तते। अधुना अनेन केवलं वार्ता एव न भवति अपितु वार्तया सहैव वयं प्रियजनं द्रष्टुम् अपि सक्षमाः । अपि च ईमेल- फेसबुक-व्हाटसएप-माध्यमैः वार्ता सुकरा भवति । अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव जनाः सरलतया वाहनं प्राप्नुवन्ति । यदि कदापि वयं मार्गं विस्मरामः तदा उचितं मार्गं प्रदर्शयितुम् अपि इदम् श्रेयस्करम्। न केवलमेतदेव अपितु एतत् यन्त्रं विभिन्नाभिः क्रीडाभिः मनोरञ्जनं चापि करोति, अतः बालाः, वृद्धाः, युवकाः सर्वे एव एतस्य यन्त्रस्य दासाः अभवन्। अधुना तु इदं यन्त्रं मित्रं, विद्यालयः, मार्गदर्शक: च सर्वमपि अभवत् ।

प्रश्नाः

प्रश्न 1.
एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)
(क) वर्तमानयुगस्य जीवनम् किं वर्तते?
(ख) के सरलतया वाहनं प्राप्नुवन्ति ?
(ग) एतत् यन्त्रं काभिः मनोरञ्जनं चापि करोति?

प्रश्न 2.
पूर्णवाक्येन लिखत (केवलं प्रश्नद्वयम्)
(क) अद्य चलभाषियन्त्रेण का प्रभाविता वर्तते ?
(ख) अधुना वार्ता कै: सुकरा भवति ?
(ग) के एतस्य यन्त्रस्य दासाः अभवन्?

प्रश्न 3.
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।

प्रश्न 4.
यथानिर्देशम् उत्तरत। (केवलं प्रश्नत्रयम्)
(क) ‘करोति’ इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(ख) ‘सुकरा’ इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत।
(ग) ‘हितकरम्’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
(घ) अनुच्छेदे ‘कठिनतया’ पदस्य कः विपर्ययः आगतः ?

18. अस्माकम् देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य पोषकः। वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं चिन्तनं दृश्यते । अद्य पर्यावरण- प्रदूषणं संसारस्य भीषणतमा समस्या वर्तते, परं जनाः अस्याः गाम्भीर्यं न अनुभवन्ति । पर्यावरण रक्षणीयं वृक्षाः रोपणीयाः रक्षणीयाः च इति शृण्वन्तः उद्घोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः । ‘प्लास्टिक’ इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः एतेषां प्रयोगं बाहुल्येन कुर्वन्ति । पर्यावरणप्रदूषकं धूमं क्षिपतां वाहनानाम् औद्योगिक-यन्त्रागाराणां सङ्ख्या निरन्तरं वर्धमाना अस्ति। यद्यपि विकासाय नवीनाः आविष्काराः, अपेक्षिताः परं सञ्चाराय विस्तृताः सुरक्षिताः मार्गाः जनानां कृते अपि आवश्यकाः एव। यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति तदा भौतिकनिकासेन किम् ! अतः सर्वकारः जनसहयोगेन सर्वथा पर्यावरणरक्षणाय यत्नशीलः भवेदिति।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत—(केवलं प्रश्नद्वयम्)
(क) के रोपणीयाः रक्षणीयाः च?
(ख) कदा पर्यावरणस्य प्रदूषणस्य समस्या नासीत्?
(ग) अस्माकं देशः कस्य पोषक: ?

प्रश्न 2.
पूर्णवाक्येन उत्तरत- (केवलं. प्रश्नद्वयम्)
(क) किं जानन्तः जनाः प्लास्टिक – निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति ?
(ख) यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि किं भविष्यति ?
(ग) केषां सङ्ख्या निरन्तरं वर्धमाना अस्ति?

प्रश्न 3.
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।

प्रश्न 4.
यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्)

प्रश्न 1.
‘जनाः अस्याः गाम्भीर्यं न अनुभवन्ति’ अत्र किं क्रियापदम्?
(क) जना:
(ख) अत्र
(ग) अस्याः
(घ) अनुभवन्ति

प्रश्न 2.
‘नवीना:’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) जना:
(ख) आविष्काराः
(घ) मार्गाः
(ग) अपेक्षिताः

प्रश्न 3.
‘शोषक:’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
(क) विषयः
(ख) चिन्तनीयः
(ग) सरल:
(घ) पोषकः

प्रश्न 4.
‘वयं प्रतिदिनं तेषां कर्तनं पश्यामः।’ अस्मिन् वाक्ये ‘पश्यामः’ क्रियायाः कर्तृपदं किं प्रयुक्तम् ?
(क) वयम्
(ख) तेषाम्
(ग) प्रतिदिनम्
(घ) कर्तनम्

19. ‘संस्कृतभाषा सर्वभाषाणां जननी’ इत्युच्यते। परम् अद्यत्वे छात्राणां मध्ये एक: चर्चितः प्रश्नः वर्तते यत् ‘संस्कृतपठनेन के लाभा: ?’ अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः के? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव। अस्याः जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते । वयम् पश्यामः यत् अद्यत्वे संस्कृतपठनेन नैके लाभाः सन्ति। संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति। ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते । आधुनिकसंस्कृतस्य वैज्ञानिक-भाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते । यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति । यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति। वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा- खगोल-विद्या- वास्तुविद्या- ‘आई.ए.एस. ‘ प्रभृति । सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति । अस्माकं संस्कृतिः संस्कृतधारिता अपि । अत एव संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देहः ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
(क) सर्वभाषाणां जननी का?
(ख) अस्माकं संस्कृति: का आधारिता वर्तते ?
(ग) कस्य व्याकरणं वैज्ञानिकम् ?

प्रश्न 2.
पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(क) ऐतिहासिकदृष्ट्या के महत्त्वपूर्णं स्थानं भजन्ते ?
(ख) वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति ?
(ग) संस्कृतभाषायाः अध्ययनं कीदृशम् अस्ति ?

प्रश्न 3.
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।

प्रश्न 4.
यथानिर्देशम् उत्तरत- (केवलं प्रश्नत्रयम्)

प्रश्न 1.
‘पश्याम:’ इति क्रिया पदस्य कर्तृपदं किम् ?
(क) नैके
(ख) वयम्
(ग) लाभा:
(घ) संस्कृतपठनेन

प्रश्न 2.
‘समुचितम्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) समाधानम्
(ख) संस्कृतशिक्षक:
(ग) स्वानुभवैः
(घ) जिज्ञासायाः

प्रश्न 3.
‘हानयः’ इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम् ?
(क) सन्ति
(ख) लिखिताः
(ग) लाभाः
(घ) नैके

प्रश्न 4.
‘अध्येतारः’ इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम् ?
(क) अस्ति
(ग) भजन्ते
(ख) सन्ति
(घ) कुर्वन्ति

20. परोपकारः अर्थात् परेषाम् उपकारः अस्ति । परोपकारस्य प्रवृत्त्या एव मनुष्यः पशुभ्यः पृथक् भवति। आहारादिप्रवृत्तिषु पशवः मानवैः समं भवन्ति, परं मानवः स्वविवेकेन ज्ञानेन च आत्मनः उन्नति करोति । अपि च, न केवलं मानवाः अपितु अस्माकं प्रकृतिः अपि परेभ्यः एव अस्ति । यथा वृक्षाः स्वफलानि न खादन्ति, ते परेषां कृते एव फलानि छायां च यच्छन्ति। नद्यः परोपकाराय एव वहन्ति। गावः अन्येभ्यः एव दुग्धं यच्छन्ति। अस्माकं पुण्यभूमौ अनेके महापुरुषाः अभवन् ये स्वप्राणान् परित्यज्य देशस्य समाजस्य च रक्षाम् अकुर्वन् । राजा शिविः शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा श्येनाय दत्तवान् । ऋषिः दधीचिः अपि वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्। अद्यापि लोके अनेके समाजसुधारकाः सन्ति ये स्वार्थं परित्यज्य लोककल्याणं कुर्वन्ति । अतः सत्यमेव कथितम्-
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(क) काः परोपकाराय एव वहन्ति ?
(ख) केषु पशवः मानवैः समं भवन्ति?
(ग) कः वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्?

प्रश्न 2.
पूर्णवाक्येन लिखत – (केवलं प्रश्नद्वयम्)
(क) मनुष्यः पशुभ्यः कथं पृथक् भवति ?
(ख) राजा शिविः शरणागतस्य कपोतस्य रक्षायै किं कृतवान्?
(ग) मानवः केन आत्मनः उन्नतिं करोति ?

प्रश्न 3.
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।

(4) यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्)

प्रश्न 1.
‘गावः अन्येभ्य एव दुग्धं यच्छन्ति’ अत्र किं कर्तृपदम् ?
(क) गावः
(ख) अन्येभ्यः
(ग) यच्छन्ति
(घ) एव

प्रश्न 2.
‘दधीचि:’ इति विशेष्यपदस्य विशेषणपदं किम् ?
(क) ऋषिः
(ख) गावः
(ग) मानवः
(घ) पशवः

प्रश्न 3.
‘तरव:’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
(क) नद्यः
(ख) वृक्षा:
(ग) गावः
(घ) फलानि

प्रश्न 4.
‘ते परेषां कृते एव फलानि छायां च यच्छन्ति’ अस्मिन् वाक्ये ‘ते’ इति पदं कस्मै प्रयुक्तम् ?
(क) जनेभ्यः
(ख) सर्वेभ्यः
(ग) नदीभ्यः
(घ) वृक्षेभ्यः

21. हिमालयस्य पुत्री पार्वती पतिरूपेण शिवं प्राप्तुं कठिनां तपस्याम् अकरोत्। सा निरन्तरं व्रतोपवासैः तपः अकरोत्। कतिचित् दिनानि सा पर्णभक्षणं विहाय अन्यत् किमपि न खादति स्म। अनन्तरं तया तदपि त्यक्तम्। अतः तस्याः नाम अपर्णा इति जातम्। एकदा तस्याः आश्रमम् एकः वटुः आगच्छत्। सः पार्वतीम् तपस्यायाः कारणम् अपृच्छत्। पार्वती तूष्णीम् अतिष्ठत्। तदा पार्वत्याः सखी अवदत् यत् एषा पतिरूपेण शिवं प्राप्तुं तपस्यां करोति । इदं श्रुत्वा वटः अवदत्-यदि एवं तर्हि नोचितम् एतत् । त्वया एतादृशं कठिनं तपः न आचरणीयम् । शिवेन सह विवाहेच्छा तु सर्वथा अनुचिता । एवं प्रकारेण सः शिवनिन्दाम् आरभत । पार्वती शिवनिन्दया क्रोधिता वटुना सह संभाषणमपि अनुचितं मत्वा ततः गन्तुम् ऐच्छत्। तदा शिवः वटाः रूपं विहाय पार्वती पत्नीरूपेण
स्वीकृतवान् ।

प्रश्ना:

प्रश्न 1.
एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
(क) वटुः कस्याः आश्रमम् आगच्छत्?
(ख) पार्वती कस्याः पुत्री आसीत्?
(ग) वस्तुतः वटुः कः आसीत्?

प्रश्न 2.
पूर्णवाक्येन लिखत- (केवलं प्रश्नद्वयम्)
(क) कया कुद्धा पार्वती वटुना सह सम्भाषणमपि अनुचितम् अमन्यत्?
(ख) पार्वती किमर्थं तपस्याम् अकरोत्?
(ग) पार्वत्याः तपस्यायाः कारणम् वटवे का न्यवेदयत् ?

प्रश्न 3.
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।

प्रश्न 4.
यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्)

प्रश्न 1.
अनुच्छेदे ‘त्यक्त्वा’ पद्स्य किं पर्यायपदं प्रयुक्तम् ?
(क) गन्तुम्
(ग) प्राप्तुम्
(ख) नत्वा
(घ) विहाय

प्रश्न 2.
‘स्वीकृतवान्’ क्रियापदस्य कर्तृपदं किम् ?
(क) वटुः
(ख) सखी
(ग) शिवः
(घ) पार्वती

प्रश्न 3.
अनुच्छेदे ‘तपस्यां’ पदस्य किं विशेषणपदं प्रयुक्तम् ?
(क) कठिनाम्
(ख) तूष्णीम्
(ग) निरन्तरम्
(घ) पार्वतीम्

प्रश्न 4.
अनुच्छेदे ‘मुखरता’ इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(क) कठिनाम्
(ख) रूपम्
(ग) अनुचितं
(घ) तूष्णीम्

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 1

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 2

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 3

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 4

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 5

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 6

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 7

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 8

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 9

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 10

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 11

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 12

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 13

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 14

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 15

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 16

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 17

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 18

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 19

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 20

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 21

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 22

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 23

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 24

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 25

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 26

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 27

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 28

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 29

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 30

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 31

NCERT SolNCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 32utions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 32

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 33

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 34

NCERT Solutions for Class 9th Sanskrit Chapter 1 अपठित - अवबोधनम् 35

The post Apathit Gadyansh in Sanskrit with Answers Class 9 appeared first on Learn CBSE.



from Learn CBSE https://ift.tt/M0GEAS5
via IFTTT

No comments:

Post a Comment