Tuesday, 19 May 2026

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

Students rely on Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी NCERT Solutions to clarify their doubts after class.

Sanskrit Class 9 Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

Class 9 Sanskrit Ch 5 Question Answer NCERT Solutions एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी प्रश्न उत्तर कक्षा 9

अभ्यासाद् जायते सिद्धिः

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) कृतकबुद्धिः का अस्ति ?
(ख) अध्यापकः कृतकबुद्धेः कानि उदाहरणानि उक्तवान् ?
(ग) यन्त्राणि कथं शिक्ष्यन्ते ?
(घ) ‘डेटासेट्’ केषां पाठशाला अस्ति?
(ङ) कृतकबुद्धिः कुत्र प्रयुज्यते ?
(च) शिक्षायां कृतकबुद्धेः उपयोगः कथं भवति ?
(छ) यदि अशुद्धदत्तांश: दीयते तर्हि का समस्या भवति ?
(ज) कृतकबुद्धेः दुरुपयोगेन कीदृशं भयम् अस्ति ?
(झ) ‘कृतकबुद्धि मित्रं भवेत्, न भवेत् स्वामी’ इति वाक्यस्य कः अर्थ : ?
उत्तर:
(क) मनुष्यनिर्मिता बुद्धिः या यन्त्रेषु मानवबुद्धिवत् कार्यं करोति कृतकबुद्धिः अस्ति ।
(ख) चैट -जीपीटी, सिरि, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा-कृतकबुद्धिः, परप्लेक्सिटि च इत्यादयः अध्यापकः कृतकबुद्धेः उदाहरणानि उक्तवान्।
(ग) यन्त्राणि दत्तांशमाध्यमेन शिक्षणं करोति ।
(घ) ‘डेटासेट्’ यन्त्राणां पाठशाला अस्ति।
(ङ) कृतकबुद्धि: शिक्षाक्षेत्रे, चिकित्साक्षेत्रे, कृषिक्षेत्रे, न्यायालये, सञ्चारे, कलासड्गीतक्षेत्रे, मनोरञ्जनादिषु क्षेत्रेषु प्रयुज्यते ।
(च) दीक्षा, स्वयं सर्वेषां कृते कृतकबुद्धि:, पी. एम. ईविद्या, संशयनिवारणार्थं चैट्बौट्, भाषानुवादोपकरणानि च शिक्षाक्षेत्रे शिक्ष्यन्ते।
(छ) यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति ।
(ज) कृतकबुद्धेः दुरुपयोगेन महत् भयम् अस्ति। अद्यत्वे अस्य दुरुपयोगेन अनेके साइबर् – अपराधाः समाजेषु भवन्ति ।
(झ) ‘कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी’, अस्य वाक्यस्य अर्थं अस्ति यत् अस्य प्रयोगः विवेकपूर्णं कर्तव्यः । यथा सा मानवहिताय कार्यं करोतु ।

२. मेलनं कुरुत – तन्त्रांशानां कार्याणि विचिन्त्य यथोचितं विकल्पं चिनुत-

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 1
उत्तर:

स्तम्भः अ स्तम्भः ब
(क) चैट-जीपीटी (Chat—GPT) ४. संवादयन्त्रम्
(ख) डीप्-फेक् (Deepfake) ७. मिथ्याचित्रस्य निर्माणम्
(ग) शिक्षक: १. नैतिकतायाः शिक्षां करोति
(घ) एलेक्सा (Alexa) ६. गीतं गायति, दीपं प्रकाशितं करोति च
(ङ) डेटासेट् (Dataset) ९. यन्त्रपाठशालायाः नाम
(च) दीक्षा (DIKSHA) २. ए. आई. आधारित – शिक्षाप्रणाली
(छ) अपूर्वानुमेय – नियन्त्रणम् (Predictive Policing) १०. अपराधशमनाय प्रयोगः
(ज) गूगल मानचित्रं (Google Maps) ३. पथनिर्देशनं करोति
(झ) पूर्वग्रह: ५. पक्षपातयुक्तं प्रशिक्षणफलम्
(ञ) दॅल्ल्-ई (DALL-E) ८. चित्रोत्पादनाय ए.आई. अनुप्रयोग:

३. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 2

(क) यन्त्राणां शिक्षणाय ………. नामकः दत्तांशसमूहः उपयुज्यते ।
(ख) चैट-जीपीटी, एलेक्सा, सिरि इत्यादीनि इत्यस्य उदाहरणानि सन्ति ।
(ग) यः मनुष्यवत् प्रश्नोत्तरं करोति, सः …….. इति उच्यते।
(घ) यदा पक्षपातयुक्तः दत्तांशः प्रयुज्यते तर्हि कृतकबुद्धिः अपि ……. करोति।
(ङ) ……. सदैव करुणां विवेकं च शिक्षयन्ति, कृतबुद्धिः तु तस्य सहायिका अस्ति ।
(च) कृतकबुद्धिः यन्त्राणि अभ्यासेन …….. प्राप्नुवन्ति ।
(छ) मिथ्याचित्रं, मिथ्यावाणी च यदि कृतकबुद्ध्या निर्मीयते तर्हि सः दोषः ………. इति कथ्यते।
(ज) ड्रोनस्य माध्यमेन बीज – वपनं, भूमिक्षमतापरीक्षणं च ……… भवति ।
(झ) यदा कृतकबुद्धिः विवेकहीनतया उपयुज्यते तर्हि ………. हानिं प्राप्नोति ।
उत्तर:
(क) डेटासेट्
(ख) संवादयन्त्रम्
(ग) कृतकबुद्धिः
(घ) पूर्वाग्रहः
(ङ) शिक्षकाः
(च) प्रशिक्षणम्
(छ) डीप्-फेक्
(ज) कृषिक्षेत्रे
(झ) नैतिकता

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

४. पाठे आगतानां शब्दानाम् आधारेण शब्दजालं प्रदत्तम् अस्ति । अत्र वामतः दक्षिणं (यथा – कृतकबुद्धि) उपरितः अधः (यथा- डेटासेट्) च उदाहरणानुसारं नूतन-पदानां रेखाङ्कनं कुरुत इति ।
Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 3
उत्तर:
(i) कृतकबुद्धि:
(ii) चर्चा
(iii) गूगल
(iv) मानचित्र:
(v) आचार्यः
(vii) यन्त्राधिगमः
(viii) एलेक्सा
(ix) चैटजीपीटी
(vi) गोलदीपम्
(x) स्फूर्त
(xi) डेटासेट्
(xii) चैटबोट्
(xiii) फेक्
(xiv) सिरि
(xv) दीक्षा
(xvi) पटल
(xvii) दतांश:
(xviii) शिक्षा

५. अधोलिखितानि वाक्यानि पठित्वा शुद्धम् (✓) अशुद्धं (✗) वा चिनुत-

(क) आर्यः यशिका च विद्यालये कृतकबुद्धेः उपयोगं कुरुत । ( )
(ख) कृतकबुद्धिः केवलं विनोदानुकूलम् उपकरणम् अस्ति। ( )
(ग) अथर्वः अपि शिक्षायां कृतकबुद्धेः प्रयोगं करोति । ( )
(घ) अक्षतः चैटबोट् इत्यस्य साहाय्येन उपन्यासलेखनं करोति । ( )
(ङ) ए.आइ.डीप्-फेक् इत्यपि कश्चन दुरुपयोगः अस्ति । ( )
(च) आर्यः चित्रनिर्माणाय कृतकबुद्धेः साहाय्यं प्राप्नोति । ( )
(छ) शिक्षकः गम्भीरतया चैट्बोट् वाक्यानां मूल्याङ्कनं करोति। ( )
उत्तर:
(क) ✗
(ख) ✗
(ग) ✓
(घ) ✗
(ङ) ✓
(च) ✗
(छ) ✓

६. एतत् चित्रम् आधारीकृत्य संस्कृतभाषायां पञ्चवाक्यानि रचयत-
Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 4
उत्तर:
(क) रोबोट: एकं कृत्रिमं यन्त्रम् अस्ति।
(ख) अयं मानवस्य सहायकरूपेण कार्यं करोति ।
(ग) रोबोट: संगणकस्य आदेशान् कार्याणि करोति ।
(घ) उद्योगेषु अस्य प्रयोगाः बहुधा भवन्ति।
(ङ) अद्यत्वे अस्य महत्त्वं वर्धते ।

७. अधोलिखित- वाक्येषु कर्तृपदं क्रियापदं च चिनुत-
Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 5
उत्तर:
कर्तृपदम् – क्रियापदम्
(क) आर्यः – आसीत
(ख) यशिका – वर्णयति
(ग) शिक्षक: – सूचयति
(घ) अथर्वः – दत्तवान्
(ङ) वेदः – विवेचयति

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

८. अधोलिखितेषु वाक्येषु विशेषणं विशेष्यं च चिनुत-
Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 7
उत्तर:
विशेषणम् – विशेष्यम्
(क) अतिसक्रियम् – संगणकयन्त्रम्
(ख) गम्भीरम् – गवेषणम्
(ग) सुबोधा – प्रस्तुति:
(घ) सुस्पष्टः – सन्देशः
(ङ) आधुनिक: – दृष्टिकोण:

स्वाध्यायान्मा प्रमदः

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।
प्रेक्षोपलब्धिश्चित्सं वत्प्रतिपत्ज्ञप्तिचेतना ॥
धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् ।
अवधानं समाधानं प्रणिधानं तथैव च ॥ (१.५.१-२, अमरकोशः)
बुद्धिः इत्यर्थे अमरकोषे बहवः पर्यायवाचकाः शब्दाः उल्लिखिताः सन्ति। ते यथा–मनीषा, धिषणा, धी, प्रज्ञा, शेमुषी, मति, प्रेक्षा, उपलब्धिः, चित्, संविद्, प्रतिपत्, ज्ञप्तिः, चेतना, धारणावती मेधा च एते सर्वेऽपि शब्दाः स्त्रीलिङ्गे विद्यन्ते।

यस्तु क्रियावान् मनुजः स विद्वान्

अधोलिखितेषु क्षेत्रेषु कृतकबुद्ध्या युक्तानाम् उपकरणानां, तन्त्राणाम् अनुप्रयोगाणां च क्षेत्रानुसारं नामानि सङ्गृह्य लिखत ।
शिक्षाक्षेत्रे, चिकित्साक्षेत्रे, वाणिज्ये, सैन्यक्षेत्रे, कृषिक्षेत्रे, मनोरञ्जनक्षेत्रे, वास्तुकलाक्षेत्रे, विधिक्षेत्रे, सामान्यजीवनक्षेत्रे च।

Class 9th Sanskrit Chapter 5 एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी Question Answer

संस्कृत कक्षा 9 पाठ 5 एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी के प्रश्न उत्तर

पठितावबोधनम्

१. अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत-

1. आर्यः – यन्त्राणामपि पाठशाला अस्ति वा? (सर्वे हसन्ति)
अध्यापकः – अस्याः यन्त्रपाठशालायाः नाम “डेटासेट् ” इति ! कृतकबुद्धिः यन्त्रं दत्तांशमाध्यमेन शिक्षणं करोति ।
यशिका – किन्तु आचार्य! यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति ?
अध्यापकः – आम्। यदा प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति। एषः दोष: ‘पूर्वग्रह:’ इति कथ्यते। कृतकबुद्धिः अद्यापि विकासपदे अस्ति । सेदानीं मानवीयपरिचर्या – विवेकेन सह त्रुटिरहितरूपेण ग्रहीतुं शक्यते ।
श्रेया – गुरुवर ! एषा बुद्धिः केषु स्थलेषु उपयुज्यते ?
अध्यापकः – श्रेये! तव प्रश्नः अतीव महत्त्वपूर्णः । शिक्षायां, चिकित्सायां, कृषिक्षेत्रे न्यायालये, सञ्चारे, वित्ते, कलासङ्गीत- क्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु च कृतकबुद्धिः भूरिशः उपयुज्यते ।

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. यन्त्रपाठशालायाः नाम किम् अस्ति ?
  2. कृतकबुद्धिः यन्त्रं कथं शिक्षणं करोति ?
  3. यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः किं करोति?

उत्तर:

  1. डेटासेट्
  2. दत्तांशमाध्यमेन
  3. त्रुटिं

II. पूर्णवाक्येन उत्तरत-

  1. कृतकबुद्धिः केषु स्थलेषु उपयुज्यते ?
  2. कीदृश: दोष: ‘पूर्वग्रह: ‘ कथ्यते ?

उत्तर:

  1. कृतकबुद्धि: शिक्षायां चिकित्सालयेषु, कृषिक्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासंगीतक्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु उपयुज्यते ।
  2. यदि प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति । एषः दोष: पूर्वग्रहः कथ्यते ।

III. यथानिर्देशम् उत्तरत-

(i) ‘तव प्रश्न: …..।’ अत्र ‘तव’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(क) श्रेयायै
(ख) अध्यापकाय
(ग) श्रेया
(घ) यशिकायै
उत्तर:
(क) श्रेयायै

(ii) ‘भूरिशः’ इत्यस्य पदस्य कः अर्थः ?
(क) प्रचुर:
(ख) सह
(ग) एषा
(घ) सञ्चारे
उत्तर:
(क) प्रचुर:

(iii) ‘कृतकबुद्धिः अपि त्रुटिं करोति’ अत्र कर्तृपदं किम्?
(क) अपि
(ख) त्रुटिं
(ग) कृतकबुद्धिः
(घ) करोति
उत्तर:
(ग) कृतकबुद्धिः

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

2. अथर्वः – महोदय ! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति ? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति ? एतत् कथं सम्भवति ?
अध्यापकः – दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धि:, पी.एम्-ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र तत्र प्रयुज्यन्ते । एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति । एतेषां साहाय्येन छात्रा : शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ।
आकाशः – हा धिक्! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनरहित। भविष्यति ?

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. केषां साहाय्येन छात्रा : शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ?
  2. मानवशिक्षकः किं प्रयोजनरहितं भविष्यति इति कः कं प्रति पृच्छति?
  3. चैट्बोट् किमर्थं प्रयुज्यते ?

उत्तर:

  1. कृतकबुद्ध्याः उपकरणाणाम्।
  2. आकाशः अध्यापकं प्रति ।
  3. संशयनिराकरणार्थं ।

II. पूर्णवाक्येन उत्तरत-

  1. ए.आई. आधारित शिक्षाप्रणाली काः सन्ति?
  2. कृतकबुद्ध्याधारितानि उपकरणानि के सन्ति?

उत्तर:

  1. दीक्षा, स्वयं, पी. एम्. ईविद्या इत्यादयः ए.आई. आधारित – शिक्षाप्रणालीः सन्ति ।
  2. चैट्बोट्, भाषानुवादोपकरणानि च कृतक- बुद्ध्याधारितानि उपकरणानि सन्ति ।

III. यथानिर्देशम् उत्तरत-

(i) ‘मानवशिक्षकः किं …….. ‘?’ अस्मिन् वाक्ये कर्तृपदं किम्?
(क) प्रयोजनरहितः
(ख) एतेषां
(ग) कारणेन
(घ) मानवशिक्षकः
उत्तर:
(घ) मानवशिक्षकः

(ii) ‘अध्ययनं कर्तुम्’ इति अर्थे किं समानार्थकं पदं प्रयुक्तम्?
(क) अध्येतुम्
(ख) साहाय्येन
(ग) उपकरणानि
(घ) शक्नुवन्ति
उत्तर:
(क) अध्येतुम्

(iii) ‘संशयः’ इति पदस्य विलोमपदं किम् ?
(क) सन्देहः
(ख) निश्चयः
(ग) शंका
(घ) समाधान
उत्तर:
(ख) निश्चयः

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

3. अध्यापकः – न न! कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति । शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीय- मूल्यबोधम् अपि जनयन्ति । ते अनुशासनं, परोपकारं, करुणां तथैव व्यवहारज्ञानं च शिक्षयन्ति। सदा स्मरणीयं यत् कृतकबुद्धिः उपकरणम् अस्ति, प्रेरणा तु मानवेभ्यः एव आगच्छति ।
वेद: – अहम् कस्मिंश्चित् चलच्चित्रे दृष्टवान् यत् यन्त्राणि मानवेभ्यः संसारम् अधिगृह्णन्ति इति ।
यशिका – अपि च, आचार्य! किं कृतकबुद्धिः मानवस्य स्थानं हर्तुं शक्नोति ?
अध्यापकः – एषा चिन्ता समाजे प्रगाढं जायमाना अस्ति, किन्तु अत्र बोद्धव्यं यत् कृतकबुद्धिः सहायिका अस्ति, मनुष्यस्य प्रतिस्पर्धिनी न।
आर्यः – महोदय ! किं कृतकबुद्धिः चिकित्सायाम् अपि प्रयुज्यते ?
अध्यापकः – आम्! रोबोटिक्-सर्जरी, रोग – पूर्वज्ञानं, कृतकबुद्धिः रश्मिपरीक्षणविद्या, चैट-कृतकबुद्धि:, औषधशुश्रूषा चेत्यादीनि तदाधारितानि चिकित्सोपकरणानि सन्ति ।

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. छात्रेषु व्यक्तित्वविकासः कथं भवति?
  2. छात्रेषु शिक्षकाः मानवीयमूल्यबोधं केन जनयन्ति ?
  3. कृतकबुद्धिः मनुष्यस्य सहायिका अस्ति प्रतिस्पर्धिनी वा?

उत्तर:

  1. शिक्षकाणां सान्निध्ये
  2. पुस्तकीयविज्ञानेन
  3. सहायिका

II. पूर्णवाक्येन उत्तरत-

  1. कृतकबुद्धिः चिकित्सायां कथं प्रयुज्यते ?
  2. शिक्षकाः छात्रान् किं शिक्षयन्ति ?

उत्तर:

  1. रोबोटिक्-सर्जरी, रोग – पूर्वज्ञानं, रश्मिपरीक्षण विद्या, चैट कृतकबुद्धि:, औषधशुश्रूषा इत्यादीनि चिकित्सोपकरणानि चिकित्सायां प्रयुज्यन्ते ।
  2. शिक्षिकाः छात्रान् अनुशासनं, परोपकारं, करुणां व्यवहारज्ञानं च शिक्षयन्ति ।

III. यथानिर्देशम् उत्तरत-

(i) ‘आगच्छति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) प्रेरणा
(ख) मानव
(ग) मानवेभ्यः
(घ) कृतकबुद्धिः
उत्तर:
(क) प्रेरणा

(ii) ‘प्रगाढ़’ इति पदस्य कः अर्थः ?
(क) दृढ़
(ख) चलं
(ग) विचलं
(घ) संशयं
उत्तर:
(क) दृढ़

(iii) ‘विरोधिनी’ इति पदस्य विपरीतार्थकं पदं किं प्रयुक्तम् ?
(क) सहायिका
(ख) प्रतिस्पर्धिनी
(ग) उपकरणानि
(घ) सान्निध्ये
उत्तर:
(क) सहायिका

4. अक्षतः – किं कृषि-क्षेत्रे अपि प्रयुज्यते ?
अध्यापकः – नूनं ! कृषि क्षेत्रे अपि ड्रोनमाध्यमेन बीज- वपनं, कीटनिरीक्षणं, भूमिक्षमता- चेत्यादीनां परीक्षणम् अपि यन्त्रैः भवन्ति ।
अथर्वः – गुरुदेव ! अपराधशमनाय कृतकबुद्धिः कथं साहाय्यं करोति ?
अध्यापकः – मुखपरिचयप्रणाली, पूर्वानुमेय – नियन्त्रणं चेत्यादि-योजनासु कृतकबुद्धेः प्रयोगः अस्ति ।
यशिका – किं कृतकबुद्धिः काव्यमपि रचयितुं समर्था?
अध्यापकः – अत्र भवन्तः किं चिन्तयन्ति ?
वेदः – अहं चैट-जीपीटी इत्यस्मात् एनं श्लोकं प्राप्तवान्-

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. बीज – वपनं कथं भवति ?
  2. कः चैट-जीपीटी इत्यस्मात् श्लोकं प्राप्तवान्?
  3. ‘कृतकबुद्धिः काव्यमपि रचयितुं समर्था: ?’ इति का पृच्छति ?

उत्तर:

  1. ड्रोनमाध्यमेन
  2. वेद:
  3. यशिका

II. पूर्णवाक्येन उत्तरत-

  1. कृतकबुद्धिः कृषिक्षेत्रे कथं प्रयुज्यते ?
  2. अपराधशमनाय कृतकबुद्धिः कथं साहाय्यं करोति ?

उत्तर:

  1. कृषिक्षेत्रे ड्रोनमाध्यमेन बीज – वपनं’, कीटनिरीक्षणं, भूमिक्षमता – च इत्यादीनां परीक्षणम् अपि यन्त्रैः भवन्ति ।
  2. मुखपरिचयप्रणाली, पूर्वानुमेय-नियन्त्रणं च इत्यादि-योजनासु कृतकबुद्धेः प्रयोगः अपराधशमनाय साहाय्यं करोति ।

III. यथानिर्देशम् उत्तरत-

(i) ‘करोति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) गुरुदेव!
(ख) कृतकबुद्धिः
(ग) साहाय्यं
(घ) अपराध
उत्तर:
(ख) कृतकबुद्धिः

(ii) ‘शमनाय’ इति पदस्य पर्यायपदं किम् ?
(क) निवारणाय
(ख) शान्तं
(ग) सहाय
(घ) समर्थ
उत्तर:
(क) निवारणाय

(iii) ‘प्रयोगः’ इति पदस्य विलोमपदं किम् ?
(क) अनुप्रयोगः
(ख) योगः
(ग) युक्तः
(घ) प्रयुक्तः
उत्तर:
(क) अनुप्रयोगः

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

5. आकाशः – गुरुवर! तत् डीप्-फेक् इति किमस्ति ?
अध्यापकः – डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्या-चित्रं, दृश्यं, ध्वनिः वा अस्ति। मिथ्यादृश्ये यत्र मुखं वाणी च मिथ्या प्रस्तूयते—उपहासाय, अनेकदा अपराधाय चापि ।
अथर्वः – अस्य निराकरणार्थम् उपायः कः ?
अध्यापकः – अस्माकं कृतकबुद्धि-साक्षरता, , नैतिकता- पूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्म- नियन्त्रणं चेति विविधाः उपायाः अस्माभिः करणीयाः ।
भास्करः – अहो! “कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी” इति वाक्यं मम मनः स्पृशति ।

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. ‘कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी’ इति वाक्यं कस्य मनः स्पृशति ?
  2. ‘डीप्–फेक्’ कस्य निर्माणं करोति?
  3. केषां निराकरणार्थम् उपायाः अस्माभिः करणीया: ?

उत्तर:

  1. भास्करस्य
  2. मिथ्याचित्रस्य
  3. अपराधानाम्

II. पूर्णवाक्येन उत्तरत-

  1. डीप्-फेक् इति किम् अस्ति ?
  2. अपराधस्य निराकरणार्थं के उपायाः अस्माभिः करणीया: ?

उत्तर:

  1. डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं, ध्वनिः वा अस्ति ।
  2. अपराधस्य निराकरणार्थं कृतकबुद्धिः साक्षरता, नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्मनियन्त्रणं च इति विविधाः उपायाः अस्माभिः करणीयाः ।

III. यथानिर्देशम् उत्तरत-

(i) ‘उपायाः’ इति पदस्य विशेषणपदं किम् ?
(क) नियन्त्रणं
(ख) अस्माभिः
(ग) करणीयाः
(घ) विविधाः
उत्तर:
(घ) विविधाः

(ii) ‘स्पृशति’ इति क्रियापदस्य कर्त्तृपदं किम् ?
(क) वाक्यं
(ख) मम
(ग) इति
(घ) मनः
उत्तर:
(क) वाक्यं

(iii) ‘मम’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) वेदाय
(ख) भास्कराय
(ग) अध्यापकाय
(घ) भास्करः
उत्तर:
(ख) भास्कराय

२. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

(क) कृतकबुद्धि: मानवबुद्धेः सहकरी अस्ति ।
(ख) वयं जागरूकाः नागरिकाः भवाम|
(ग) कृतकबुद्धिः मित्रं भवेत् ।
(घ) समाजे विविधाः साइबर् – अपराधाः भवन्ति।
(ङ) भयस्य कारणं यथार्थम् अस्ति।
(च) कृतकबुद्धिः सहायिका अस्ति ।
(छ) चिकित्सायाः क्षेत्रे कृतकबुद्धिः प्रयुज्यते ।
(ज) यन्त्राणि मानववत् चिन्तयन्ति ।
(झ) कृतकबुद्धि: दत्तांशमाध्यमेन शिक्षणं करोति ।
(ञ) प्रेरणा तु मानवेभ्यः आगच्छति ।
उत्तर:
(क) कृतकबुद्धिः कस्याः सहकरी अस्ति ?
(ख) वयं कीदृशाः नागरिकाः भवाम?
(ग) का मित्रं भवेत् ?
(घ) कुत्र विविधाः साइबर् – अपराधाः भवन्ति ?
(ङ) कस्य कारणं यथार्थम् अस्ति ?
(च) कृतकबुद्धिः कीदृशी अस्ति ?
(छ) कस्याः क्षेत्रे कृतकबुद्धिः प्रयुज्यते ?
(ज) यन्त्राणि कथं चिन्तयन्ति ?
(झ) कृतकबुद्धिः केन शिक्षणं करोति ?
(ञ) प्रेरणा तु केभ्यः आगच्छति ?

३. पर्यायवाचि-पदानां मेलनं कुरुत-

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 8
(क) – (ख)
(क) वाञ्छामः – शक्नुवन्ति
(ख) सहकरी – निवारणाय
(ग) तन्त्रांश: – इच्छामः
(घ) अर्हन्ति – तीव्रतया
(ङ) दत्तांशः – विचारणीयः
(च) प्रतिस्पर्धिनी – सहयोगिनी
(छ) शमनाय – संगणक-तन्त्रः
(ज) अध्येतुम् – पूर्वदत्तं ज्ञानं/ डेटा
(झ) द्रुतगत्या – प्रतियोगी
(ञ) चिन्तनीयः – अध्ययनं कर्तुम्
उत्तर:
(क) – (ख)
(क) वाञ्छामः – इच्छामः
(ख) सहकरी – सहयोगिनी
(ग) तन्त्रांश: – संगणक-तन्त्रः
(घ) अर्हन्ति – शक्नुवन्ति
(ङ) दत्तांशः – पूर्वदत्तं ज्ञानं/डेटा
(च) प्रतिस्पर्धिनी – प्रतियोगी
(छ) शमनाय – निवारणाय
(ज) अध्येतुम् – अध्ययनं कर्तुम्
(झ) द्रुतगत्या – तीव्रतया
(ञ) चिन्तनीयः – विचारणीयः

४. अधोलिखितानां पदानां विपरीतार्थक – पदानाम् उचितं मेलनं कुरुत-

Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 10
(क) – (ख)
(क) सामर्थ्य – अप्रचलितम्
(ख) चर्चित – अक्षम्य
(ग) युक्तम् – निष्ठुरता
(घ) उपयोगं – अयुक्तम्
(ङ) करुणा – दुरुपयोगं
(च) समृद्धं – विपन्नं
उत्तर:
(क) – (ख)
(क) सामर्थ्य – अक्षम्य
(ख) चर्चित – अप्रचलितम्
(ग) युक्तम् – अयुक्तम्
(घ) उपयोगं – दुरुपयोगं
(ङ) करुणा – निष्ठुरता
(च) समृद्धं – विपन्नं

५. विग्रहं कृत्वा लिखत-
Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी 9
(क) मानवबुद्धि: …………………..
(ख) सोत्साहं ………………
(ग) मानुषजीवनं …………..
(घ) यन्त्रपाठशाला ………….
(ङ) प्रमुखप्रकाराः ………..
(च) अपराधशमनाय ……………
(छ) भूमिक्षमता ……………
(ज) कीटनिरीक्षणं …………
उत्तर:
(क) मानवस्य बुद्धि:
(ख) उत्साहेन सह
(ग) मानुषस्य जीवनं
(घ) यन्त्राणां पाठशाला
(ङ) प्रमुखाः प्रकाराः
(च) अपराधानां शमनाय
(छ) भूमेः क्षमता
(ज) कीटानां निरीक्षणं

The post Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी appeared first on Learn CBSE.



from Learn CBSE https://ift.tt/HTRvFJa
via IFTTT

No comments:

Post a Comment