Wednesday, 20 May 2026

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

Students rely on Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः NCERT Solutions to clarify their doubts after class.

Sanskrit Class 9 Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

Class 9 Sanskrit Ch 9 Question Answer NCERT Solutions कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

कृतं प्रतिकृतं भूयादेष धर्मः सनातनः प्रश्न उत्तर कक्षा 9

अभ्यासाद् जायते सिद्धिः

१. अधः प्रदत्तप्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) भीमस्य जननी का?
(ख) कुन्त्या निश्चितं कः न समर्थयति ?
(ग) पाण्डवानाम् उपकर्ता क: ?
(घ) कं चिन्तयन् दुर्योधनः निद्रां न लभते ?
(ङ) पाण्डवाः कुत्र निवसन्ति स्म ?
(च) भरतवंशप्रदीपः कः ?
(छ) कः भृशं परिदेवयते?
उत्तर:
(क) कुन्ती
(ख) युधिष्ठिरः
(ग) विप्र:/ब्राह्मणः
(घ) भीमं
(ङ) एकचक्रनगरे
(च) भीमः
(छ) तपस्वी / ब्राह्मणः

२. पूर्णवाक्येन उत्तरं लिखत-

(क) “भैक्षप्रदानेन ……” इति श्लोकानुसारं सनातनः धर्मः कः?
(ख) बकनामा दैत्यः कुत्र वसति?
(ग) कुन्ती किं प्रतिश्रुतवती ?
(घ) भीमस्य अग्रजः कः ?
(ङ) का प्रत्यादेशं न अर्हति ?
(च) पौराः बकासुराय कथं बलिम् आहरन्ति ?
(छ) क्षत्रियाणां धर्मः कः ?
उत्तर:
(क) “भैक्षप्रदानेन … इति श्लोकानुसारं ‘कृतं प्रतिकृतं भूयात्’ एषः सनातनः धर्मः भवति ।
(ख) बकनामा दैत्य एकचक्रस्य पुरस्य समीपे पर्वते वसति ।
(ग) ब्राह्मणपरिवारस्य दु:स्थितिं ज्ञात्वा कुन्ती प्रतिश्रुतवती यत् स्वपुत्रेषु एकं बकासुरस्य समीपं प्रेषयामि इति ।
(घ) भीमस्य अग्रजः युधिष्ठिरः आसीत् ।
(ङ) कुन्ती प्रत्यादेशं न अर्हति ।
(च) पौराः बकासुराय पर्यायक्रमेण बलिम् आहरन्ति ।
(छ) नररक्षणं क्षत्रियाणां धर्मः अस्ति ।

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

३. अधस्तात् दत्तानि वाक्यानि केन कं प्रति उक्तानि इति निर्दिशत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 1
उत्तर:
केन / कया – कं/ कां प्रति
१. भीमेन – युधिष्ठिरम्
२. भीमेन – अर्जुनम्
३. भीमेन – कुन्तीम्
४. सहदेवेन – भीमम्
५. युधिष्ठिरेण – कुन्तीम्
६. बकासुरेण – भीमम

४. रेखाङ्कितपदेषु सन्धिं विभज्य सन्धिनाम लिखत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 2

यथा-न चैतावत्
च + एतावत् (वृद्धि – सन्धिः)

(क) सम्यगनुष्ठितम्।
……………… + ……………… + (………………)
(ख) पुरस्यादूरवर्तिनि पर्वते वसति बकनामा दैत्यः ।
……………… + ……………… + (………………)
(ग) श्रुतं तस्य दुरात्मनो वृत्तम् ।
……………… + ……………… + (………………)
(घ) भोज्यसमाहारे मानुषोऽपि तस्मै प्रेषयितव्यः।
……………… + ……………… + (………………)
(ङ) मातः! नास्त्यत्र किमप्यनुशोचितव्यम्।
……………… + ……………… + (………………)
(च) क्षत्रियाण्या यदुचितं तदनुष्ठितम्।
……………… + ……………… + (………………)
(छ) स खल्वेक पुत्रस्तपस्वी भृशं परिदेवयते ।
……………… + ……………… + (………………)
(ज) कथं नु त्वया सङ्कल्पितम्
……………… + ……………… + (………………)
(झ) धर्मसङ्ग्रहोऽत्र द्रष्टव्यः ।
……………… + ……………… + (………………)
(ञ) मानुषभोजी स राक्षस इति श्रूयते ।
……………… + ……………… + (………………)
उत्तर:
(क) सम्यक् + अनुष्ठितम् – (व्यञ्जन सन्धिः)
(ख) पुरस्य + अदूरवर्तिनि – (दीर्घ सन्धि:)
(ग) दुरात्मन: + वृत्तम् – (विसर्ग सन्धि)
(घ) मानुष: + अपि – (विसर्ग सन्धि)
(ङ) नास्ति + अत्र – (यण् सन्धिः)
(च) यत् + उचितं – (व्यञ्जन सन्धिः)
(छ) पुत्रः + तपस्वी – (विसर्ग सन्धि)
(ज) सम् + कल्पितम् – (व्यञ्जन सन्धिः)
(झ) धर्मसङ्ग्रहः + अत्र – (विसर्ग सन्धि)
(ञ) सः + राक्षसः – (विसर्ग सन्धि)

५. पर्यायवाचि पदानां मेलनं कुरुत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 3
यथा-पिता – जनकः
(क) आयोधनम् – १. ब्राह्मण:
(ख) विप्रः – २. जननी
(ग) असुरः – ३. अग्निः
(घ) अम्ब – ४. दैत्यः
(ङ) हुताशन: – ५. युद्धम्
उत्तर:
(क) आयोधनम् – ५. युद्धम्
(ख) विप्रः – १. ब्राह्मण:
(ग) असुरः – ४. दैत्यः
(घ) अम्ब – २. जननी
(ङ) हुताशन: – ३. अग्निः

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

६. अधोलिखितानां पदानां विपरीतार्थक शब्दान् लिखत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 4
यथा- पीवरः – कृशः
(क) उपकृतः – ……………………
(ख) अग्रजस्य – ……………………
(ग) उचितम् – ……………………
(घ) हर्षः – ……………………
उत्तर:
(क) उपकृत: – अपकृत:
(ख) अग्रजस्य – अनुजस्य
(ग) उचितम् – अनुचितम्
(घ) हर्षः – दु:ख / शोक:

७. मञ्जूषातः समुचितं विशेषणपदं चित्वा लिखत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 5
क्षत्रियाणी, शकटपूरं, प्रतिवेशी, खरदंष्ट्रः, जठरस्थः, कौन्तेयः, पीवरौ

यथा-पीवरौ बाहू
(क) ………… मृष्टान्नम्
(ख) ……….. ब्राह्मण:
(ग) ………. मृगाधिप:
(घ) ………. भीमः
(ङ) ………… कुन्ती
(च) ………. हुताशन:
उत्तर:
(क) शकटपूर
(ख) प्रतिवेशी
(घ) कौन्तेयः
(ग) खरदंष्टः
(ङ) क्षत्रियाणी
(च) जठरस्थः

८. समस्तपदानि लिखत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 6
यथा— मृष्टम् अन्नं शकटपूरं पूरयित्वा प्रेषणीयम् । मृष्टान्नम्
(क) वीरस्य भुजयोः बलम् आश्रित्य वयं सुखं शेमहे । ……………..
(ख) भवता धर्माणां सङ्ग्रह: द्रष्टव्यः । ……….
(ग) नहि मातु: आज्ञा प्रत्यादेशमर्हति । ……………
(घ) धनुः धरति इति अहम् अनुगमिष्यामि । …………..
(ङ) नहि: खरदंष्ट्र: मृगाणाम् अधिपः सहायमपेक्षते । …………..
(च) अस्य पुरस्य न दूरे वर्तते पर्वते वसति बकनामा दैत्यः। …………….
उत्तर:
(क) भुजबलम्
(ख) धर्मसङ्ग्रहः
(ग) मातुराज्ञा
(घ) धनुर्धरः
(ङ) मृगाधिपः
(च) अदूरवर्तिनि

९. अधोलिखितवाक्यानाम् उचितभावैः सह सम्मेलनं कुरुत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 7
यथा- प्रभूतमुपस्थितं मे भोजनम् । – हर्षः
(क) धनुर्धरोऽहमनुगमिष्यामि। – २. निराशा
(ख) भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ? – १. हास:
(ग) अपि हस्तद्वयेन भोक्ष्यसे ? – ३. ग्लानिः
(घ) हनिष्यामि तं दुरात्मानम्। – ४. अधिकार:
(ङ) स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते । – ५. ओज:
(च) मानुषापसद, परिवेषय मे भोजनम् । – ६. धैर्यम्
उत्तर:
(क) धनुर्धरोऽहमनुगमिष्यामि । – ४. अधिकार:
(ख) भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम्? – ६. धैर्यम्
(ग) अपि हस्तद्वयेन भोक्ष्यसे ? – २. निराशा
(घ) हनिष्यामि तं दुरात्मानम् । – ५. ओजः
(ङ) स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते । – २. निराशा
(च) मानुषापसद, परिवेषय मे भोजनम् । – ३. ग्लानिः

१०. वाच्यपरिवर्तनं कुरुत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 8
कृर्मवाच्यम् – कर्तृवाच्यम्
यथा – भवत्या प्रतिश्रुतम् । – भवती प्रतिश्रुतवती।
(क) क्षत्रियाण्या अनुष्ठितम्। – …………………………….
(ख) भवत्या सज्जीक्रियताम्। – …………………………….
(ग) भवत्या उपक्षिप्तम् । – …………………………….
(घ) त्वया सङ्कल्पितम् । – …………………………….
(ङ) भवता धर्मसङ्ग्रहः द्रष्टव्यः । – …………………………….
(च) मानुषापसद, परिवेषय मे भोजनम् । – …………………………….
उत्तर:
(क) क्षत्रियाण्या अनुष्ठितम्।
(ख) भवत्या सज्जीक्रियताम् ।
(ग) भवत्या उपक्षिप्तम्।
(घ) त्वया सङ्कल्पितम्।
(ङ) भवता धर्मसङ्ग्रहः द्रष्टव्यः ।
(च) पौरजनैः मानुषः प्रेषयितव्यः।

स्वाध्यायान्मा प्रमदः

कविकालकृतीनां विचारः (https://vidwannrs.in/)
कविः – विद्वान् एन्. रङ्गनाथशर्मा
जननम् – ७.४.१९२६, देहत्यागः २०१४
जन्मस्थानम् – नडळल्ली ग्रामः, शिवमोग्गमण्डलम्, कर्णाटकराज्यम्।
उपाधयः – महामहोपाध्यायः, विद्यावारिधिः, व्याकरणशास्त्रप्रवीणः । राष्ट्रप्रशस्तिभाक् राज्यप्रशस्तिभाक् च ।
कृतयः – अयम् आचार्यः स्वरचित-ग्रन्थाः, अनूदित-ग्रन्थाः, व्याख्यानग्रन्थाः इति परश्शतान् लेखान् ग्रन्थान् च अलिखत्। संस्कृतभाषया — बाहुबलिविजयम्, एकचक्रम्, कुसुमाञ्जलिः, श्रीशङ्करचरितामृतम् इत्यादयः कृतयः प्रसिद्धाः ।
अयं विद्वान् व्याकरण-शास्त्रे अलङ्कारशास्त्रे अद्वैत वेदान्ते निष्णातः। बेङ्गलूरुस्थे चामराजेन्द्र-संस्कृत-महाविद्यालये व्याकरणप्राध्यापकः सन् चिरं सुरभारत्याः सेवाम् अकुरुत ।

अमरकोषः

१. असुरः असुरा दैत्य-दैतेयदनुजेन्द्रारिदानवाः।
२. आयोधनम् युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्।
३. तनयः आत्मजस्तनयः सूनुः स्त्रियः पुत्रस्त्रियां त्वमी।

यस्तु क्रियावान् मनुजः स विद्वान्

१. अस्य रूपकस्य अभिनय – अंशान् ज्ञात्वा स्वशालायाम् अभिनयं कुरुत ।
२. अस्मिन् रूपके विद्यमानानां पात्राणां नामानि विलिख्य तेषां विषये टिप्पणीं लिखत ।
३. विद्यालयस्य ग्रन्थालयं गत्वा महाभारतस्य विविधपात्राणां विषये पठित्वा मित्रैः सह आलोचनां कुरुत ।
(नोट – छात्राः स्वयमेव करिष्यन्ति ।)

Class 9th Sanskrit Chapter 9 कृतं प्रतिकृतं भूयादेष धर्मः सनातनः Question Answer

संस्कृत कक्षा 9 पाठ 9 कृतं प्रतिकृतं भूयादेष धर्मः सनातनः के प्रश्न उत्तर

पठितावबोधनम्

१. अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत-

1. (ततः प्रविशति कुन्ती भीमसेनेन सह)
कुन्ती – पुत्र ! किञ्चित् प्रतिश्रुतं मया प्रतिवेशिने ब्राह्मणाय ।
भीमः – सम्यगनुष्ठितम् । आतिथेयः किल तत्र भवान् उपकर्ता वसति प्रदानेन ।
कुन्ती – आकर्णय, अस्य एकचक्रस्य पुरस्यादूरवर्तिनि पर्वते वसति बकनामा दैत्यः ।
भीमः – श्रुतं तस्य दुरात्मनो वृत्तम्। पर्यायक्रमेण तस्मै बलिमाहरन्ति पौराः ।
कुन्ती – श्वः प्रभाते भवत्यस्य विप्रस्य पर्यायः ।
भीमः – बाढम्।
कुन्ती – न चैतावत्। मानुषभोजी स राक्षसः श्रूयते। भोज्यसमाहारे मानुषोऽपि तस्मै प्रेषयितव्यः ।
तस्माद् बालकस्य पिता तपस्वी शोचति ।
भीमः – विदितमवशिष्टम् । मत्पुत्रेषु कोऽपि प्रेषयिष्यतः इति भवत्या प्रतिश्रुतम् ।
कुन्ती – (मौनमवलम्बते)

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. पर्वते कः वसति ?
  2. कुन्ती केन सह प्रविशति ?
  3. पौराः कस्मै बलिम् आहरन्ति ?
  4. प्रभाते श्वः कस्य पर्याय: ?

उत्तर:

  1. बकासुरः
  2. भीमसेनेन ।
  3. बकासुराय
  4. विप्रस्य परिवार:

II. पूर्णवाक्येन उत्तरत-

  1. मानुषभोजी क: ?
  2. कुन्ती किं प्रतिश्रुतवती ?

उत्तर:

  1. मानुषभोजी बकः अस्ति ।
  2. ‘मत्पुत्रेषु कोऽपि प्रेषयिष्यत’ इति कुन्ती प्रतिश्रुतवती ।

III. यथानिर्देशम् उत्तरत-

(i) ‘शोचति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) बालकस्य
(ख) पिता
(ग) तस्माद्
(घ) भीमः
उत्तर:
(ख) पिता

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

(ii) ‘नागरिका’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) पौराः
(ख) पर्याय:
(ग) मानुषः
(घ) विप्रस्य
उत्तर:
(क) पौराः

(iii) मानुषः अपि ‘तस्मै’……। अत्र ‘तस्मै’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) भीमाय
(ख) विप्राय
(ग) बकाय
(घ) बालकाय
उत्तर:
(ग) बकाय

2. युधिष्ठिरः – (विलोक्य) अये! हर्षेण उत्फुल्लाक्ष इव वत्सो
भीमः – प्रभूतमुपस्थितं मे भोजनम् ।
अर्जुनः – स्थाने खलु प्रहर्षः औदरिकस्य ।
नकुलः – ओष्ठौ स्फुरतः इवाग्रजस्य ।
भीमः – पश्यत, बाहु अपि स्फुरत: ।
सहदेवः – अपि हस्तद्वयेन भोक्ष्यसे?
भीमः – तदपि भविष्यति । न केवलं भोजनमुपस्थितम्। आयोधनमपि ।
युधिष्ठिरः – आयोधनमिति । केन ?
भीमः – बकासुरेण।
युधिष्ठिरः – अम्ब! किमिदानीमुपक्षिप्तम् ?
कुन्ती – पुत्रकाः ! बकासुरस्य भोजनपरिकल्पनं जानीथ पौराणाम्। तदिदानीं पर्यायपतितं प्रतिवेशिनो ब्राह्मणस्य ।

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. कस्य ओष्ठौ स्फुरत: ?
  2. आयोधनं केन सह भविष्यति ?
  3. हर्षेण उत्फुल्लाक्षः कः ?
  4. भोजनप्रियः कः ?

उत्तर:

  1. भीमस्य
  2. बकासुरेण
  3. भीम:
  4. भीम:

II. पूर्णवाक्येन उत्तरत-

  1. कस्य बाहू स्फुरत: ?
  2. ‘अपि हस्तद्वयेन भोक्ष्यसे’ इति कः कं प्रति कथयति?

उत्तर:

  1. भीमस्य बाहू स्फुरतः।
  2. ‘अपि हस्तद्वयेन भोक्ष्यसे’ इति सहदेवः भीमं प्रति कथयति ।

III. यथानिर्देशम् उत्तरत-

(i) ‘अनुजस्य’ इत्यस्य पदस्य विलोमपदं किम् ?
(क) अग्रजस्य
(ख) स्फुरतः
(ग) औदरिकस्य
(घ) वत्स
उत्तर:
(क) अग्रजस्य

(ii) ‘प्रभूतम् उपस्थितं मे भोजनम्’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) अर्जुनाय
(ख) सहदेवाय
(ग) भीमाय
(घ) विप्राय
उत्तर:
(ग) भीमाय

(iii) ‘युद्धम्’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) आयोधनम्
(ख) पतितं
(ग) स्थितम्
(घ) उपक्षिप्तम्
उत्तर:
(क) आयोधनम्

3. युधिष्ठिरः – ततस्ततः ।
कुन्ती – स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते ।
युधिष्ठिरः – ज्ञातमवशिष्टं मातः । न खलु भवत्या अध्यवसितं समर्थये। यस्य वीरस्य भुजबलमाश्रित्य वयं सुखं शेमहे, यच्च चिन्तयन् दुर्योधनो निद्रां न लभते, तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?
भीमः – धर्मं विजानता भवता धर्मसङग्रहोऽत्र द्रष्टव्यः । न हि मातुराज्ञा प्रत्यादेशमर्हति ।
युधिष्ठिरः – वत्स भीमसेन! बलवान् मानुषभोजी स राक्षसः इति श्रूयते ।
भीमः – ततः किम् ? राक्षसध्वंसी भीमः स्मर्यते । अलं विशङ्कया । हनिष्यामि तं दुरात्मानम् ।
अर्जुनः – धनुर्धरोऽहमनुगमिष्यामि ।
भीमः – मा मैवम्। न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते।

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. धनुर्धरः कः ?
  2. क: भृशं परिदेवयते ?
  3. भीमं चिन्तयन् कः निद्रां न लभते ?
  4. कुन्त्या कस्य प्रेषणं सङ्कल्पितम् ?

उत्तर:

  1. अर्जुन:
  2. तपस्वी
  3. दुर्योधनः
  4. भीमस्य

II. पूर्णवाक्येन उत्तरत-

  1. कः सहायं न अपेक्षते ?
  2. स: राक्षसः कीदृशः अस्ति ?

उत्तर:

  1. खरदंष्ट्रो मृगाधिपः सहायं न अपेक्षते ।
  2. सः राक्षसः बलवान् मानुषभोजी च अस्ति ।

III. यथानिर्देशम् उत्तरत-

(i) ‘अनुगमिष्यामि’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) अहम्
(ख) त्वम्
(ग) भीमः
(घ) अर्जुन:
उत्तर:
(क) अहम्

(ii) ‘खरदंष्ट्र:’ इति पदस्य विशेष्यपदं किम् ?
(क) भीमः
(ख) मृग:
(ग) मृगाधिपः
(घ) बक:
उत्तर:
(ग) मृगाधिपः

(iii) ‘अवज्ञा’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) मैवम्
(ख) विशङ्कया
(ग) प्रत्यादेश
(घ) प्रेषणं
उत्तर:
(ग) प्रत्यादेश

4. रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम् ।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ॥
बक: – अहह ! मम मित्रस्य हिडिम्बस्य हन्ता कौन्तेयो भवान् ?
भीमसेनः – कामम् ! कौन्तेयोऽस्मि भीमसेनः ।
बक: – इदमस्ति मे भागधेयम् । चिरान्विष्टो मृगः स्वयमुत्पतितो व्याघ्रगह्वरम् । श्लाघनीयोऽसि मे रिपुः ।
भीमसेनः – इदं मे स्वस्त्ययनं यन्मां श्लाघनीयं रिपुं मन्यसे । अनुवर्तस्व ते मित्रं हिडिम्बम् ।
बकः – वाचा ! क्षत्रियडिम्भ गृहाण शस्त्रम् । शातयामि ते दर्पम्।
भीमसेनः – अलं शस्त्रग्रहणविडम्बनेन त्वन्मस्तकास्थिभिदुरोऽस्ति ममैष मुष्टि: ।
(उभौ प्रहरतः । मल्लयुद्धं प्रवर्तते । हतः पतति बक: ।)

प्रश्ना:-

I. एकपदेन उत्तरत-

  1. भीमसेनः कस्य हन्ता आसीत्?
  2. बकस्य मित्र क: ?
  3. हतः कः पतति ?
  4. हिडम्बस्य निषूदकः कः ?

उत्तर:

  1. हिडिम्बस्य
  2. हिडिम्ब
  3. बक:
  4. भीमः

II. पूर्णवाक्येन उत्तरत-

  1. भीमः केषां रक्षकः अस्ति?
  2. मल्लयुद्ध कयोः मध्ये प्रवर्तते ?

उत्तर:

  1. भीमः साधुलोकानां रक्षकः अस्ति।
  2. भीमस्य बकस्य च मध्ये मल्लयुद्धं प्रवर्तते।

III. यथानिर्देशम् उत्तरत-

(i) ‘मित्र’ इति पदस्य विलोमपदं किम् ?
(क) रिपुः
(ख) वाचाट
(ग) डिम्भ
(घ) वत्स
उत्तर:
(क) रिपुः

(ii) ‘प्रलापक:’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) मुष्टि:
(ख) दर्पम्
(ग) भागदेव
(घ) वाचाट
उत्तर:
(घ) वाचाट

(iii) ‘श्लाघनीयोऽसि मे रिपुः’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) भीमाय
(ख) बकाय
(ग) भीमसेनः
(घ) बकासुरः
उत्तर:
(ख) बकाय

२. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्न-निर्माणं कुरुत-

(क) बालकस्य पिता शोचति ।
(ख) पाण्डवानां माता कुन्ती रोदनकारणं पृच्छति ।
(ग) नगरवासी स्वेच्छया असुरस्य भक्ष्यं भवेत् ।
(घ) पाण्डवा: एकचक्रनगरे निवसन्ति ।
(ङ) कुन्ती भीमसेनेन सह प्रविशति ।
(च) श्वः प्रभाते विप्रस्य पर्यायः अस्ति ।
(छ) सः राक्षस मानुषभोजी श्रूयते ।
(ज) पौराः बकाय पर्यायक्रमेण बलिम् आहरन्ति ।
(झ) युधिष्ठिरादयः प्रविशन्ति ।
(ञ) श्रोत्रियः प्रतिवेशी प्रत्युपकारम् अर्हति ।
उत्तर:
(क) कस्य पिता शोचति ?
(ख) केषां माता कुन्ती रोदनकारणं पृच्छति?
(ग) कः स्वेच्छया असुरस्य भक्ष्यं भवेत् ?
(घ) पाण्डवाः कुत्र निवसन्ति ?
(ङ) कुन्ती केन सह प्रविशति ?
(च) कदा विप्रस्य पर्यायः अस्ति?
(छ) स राक्षसः कीदृशः श्रूयते ?
(ज) के बकाय पर्यायक्रमेण बलिम् आहरन्ति ?
(झ) के प्रविशन्ति ?
(ञ) कीदृशः प्रतिवेशी प्रत्युपकारम् अर्हति ?

३. अधोलिखितश्लोकानाम् अन्वयः मञ्जूषायाः सहायतया कुरुत-

(क) भैक्षप्रदानेन चिरं परैरुपकृता वयम् ।
कृतं प्रतिकृतं भूयादेष धर्मः सनातनः ।।

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 9

अन्वयः – वयं …… (i)…… परैः भैक्षप्रदानेन …….(ii) ……। कृतं ……(iii)……. भूयात्, एषः ……(iv)……. धर्मः ।
उत्तर:
(i) चिरं
(ii) उपकृता
(iii) प्रतिकृतं
(iv) सनातनः

(ख) इमौ हि पीवरौ बाहू सहायौ सहजी मम।
बकं विध्वंसयिष्यामि सिंहः क्षुद्रमृगं यथा ।।

मञ्जूषा : बकं यथा पीवरौ, सहजी

अन्वयः – हि इमी ……….(i)……….. बाहू मम सहायौ …….(ii)……..।
विध्वंसयिष्यामि ………(iii)………… सिंह: क्षुद्रमृगं ……..(iv)……..
उत्तर:
(i) चिरं
(ii) उपकृता
(iii) प्रतिकृतं
(iv) सनातनः

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

(ख) इमौ हि पीवरौ बाहू सहायौ सहजी मम।
बकं विध्वंसयिष्यामि सिंहः क्षुद्रमृगं यथा ।।
Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 10
अन्वयः – हि इमौ ….(i)……… बाहू मम सहायौ ……..(ii)………
विध्वंसयिष्यामि ……(iii)…… सिंह: क्षुद्रमृगं ……..(iv)……..।
उत्तर:
(i) पीवरौ
(ii) सहजी
(iii) यथा
(iv) बकं

(ग) रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम्।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ।।
Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 11
उत्तर:
(क) शकटपूर
(ख) प्रतिवेशी
(ग) खरदंष्टः
(घ) कौन्तेयः
(ङ) क्षत्रियाणी
(च) जठरस्थः

अन्वयः :- साधुलोकानां ……..(i)…… बाहुशालिनां ………(ii)……. हिडिम्बस्य …..(iii)……… भवादृशां च ……(iv)……… अस्मि ।
उत्तर:
(i) रक्षिता
(ii) वरिष्ठो
(iii) निषूदक:
(iv) मृत्यु:

४. सन्धिविच्छेदं कुरुत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 18
(क) ममैव – (ख) कौन्तेयोऽस्मि
(ग) किञ्चित् – (घ) सम्यगनुष्ठितम्
(ङ) भवत्यस्य – (च) कोऽपि
(छ) तस्यैव – (ज) प्रत्युपकारः
(झ) प्रेषयामीति – (ञ) चेति
उत्तर:
(क) मम + एव – (ख) कौन्तेयः + अस्मि
(ग) किम् + चित् – (घ) सम्यक् + अनुष्ठितम्
(ङ) भवति + अस्य – (च) कः + अपि
(छ) तस्य + एव – (ज) प्रति + उपकारः
(झ) प्रेषयामि + इति – (ञ) च + इति

५. अधोलिखितवाक्येषु कर्तृपदं – क्रियापदं च चिनुत-
Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 19
उत्तर:
कर्तृपदम् – क्रियापदम्
(क) भीमः – प्रस्थितः
(ख) बक: – पतति
(ग) दुर्योधनः – लभते
(घ) कुन्ती – प्रविशति
(ङ) पौराः – आहरन्ति
(च) कुन्ती – कृतवती

६. अधोलिखितेषु वाक्येषु विशेषण- विशेष्यं च चिनुत-
Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 20
उत्तर:
विशेषणम् – विशेष्यम्
(क) प्रसिद्धौ – ग्रन्थौ
(ख) बहवः – ग्रन्थः
(ग) शोकाकुलेन – परिवारेण
(घ) मानुषभोजी – राक्षसः
(ङ) धनुर्धरः – अहम्
(च) राक्षसध्वंसी – भीमः

७. पर्यायवाचि पदानां मेलनं कुरुत-

Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः 21
उत्तर:
(क) – (ख)
(क) स्वादिष्टम् अन्नम् – भोजनप्रियः
(ख) आकर्णय – नागरिकाः
(ग) पीवरौ – मृष्टान्नम्
(घ) निषूदक: – अवज्ञा
(ङ) अभिहितम् – विनाशक:
(च) परिदेवयते – प्रतिज्ञात
(छ) पौराः – विलपति
(ज) औदरिक: – स्थूलौ
(झ) प्रतिश्रुतम् – शृणु
(ञ) प्रत्यादेशं – उक्तम्
उत्तर:
(क) – (ख)
(क) स्वादिष्टम् अन्नम् – मृष्टान्नम्
(ख) आकर्णय – शृणु
(ग) पीवरौ – स्थूलौ
(घ) निषूदक: – विनाशक:
(ङ) अभिहितम् – उक्तम्
(च) परिदेवयते – विलपति
(छ) पौराः – नागरिकाः
(ज) औदरिकः – भोजनप्रियः
(झ) प्रतिश्रुतम् – प्रतिज्ञात
(ञ) प्रत्यादेशं – अवज्ञा

८. अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुनः लिखत-

(क) मृष्टान्न-भाण्डसहितः बकासुरस्य समीपं गन्तुम् उद्युक्तः भवति।
(ख) स्वपुत्रेषु एकं बकासुरस्य समीपं प्रेषयामि इति कुन्ती प्रतिज्ञां कृतवती।
(ग) पाण्डवाः एकचक्रनगरे कस्यचित् ब्राह्मणस्य गृहे निवसन्ति ।
(घ) सन्धिनियमानुसारं प्रतिदिनं कश्चित् नगरवासी स्वेच्छया असुरस्य भक्ष्यं भवेत्।
(ङ) गृहस्वामिनः गृहे रोदनध्वनिं श्रुत्वा तत्र गता पाण्डवानां माता कुन्ती रोदनकारणं पृच्छति।
(च) तद्दिने पर्यायेण तस्यैव ब्राह्मणपरिवारस्य बलिदानस्य वारः आसीत्।
(छ) ततः शोकाकुलेन परिवारेण सा ज्ञापिता ।
(ज) यत् एकचक्रनगरवासिनां नातिदूरस्थितेन बकनामा । असुरेण सह सन्धिः अस्ति ।
उत्तर:
(ग) पाण्डवा: एकचक्रनगरे कस्यचित् ब्राह्मणस्य गृहे निवसन्ति ।
(ङ) गृहस्वामिनः गृहे रोदनध्वनिं श्रुत्वा तत्र गता पाण्डवानां माता कुन्ती रोदनकारणं पृच्छति ।
(छ) ततः शोकाकुलेन परिवारेण सा ज्ञापिता ।
(ज) यत् एकचक्रनगरवासिनां नातिदूरस्थितेन बकनामा । असुरेण सह सन्धिः अस्ति ।
(घ) सन्धिनियमानुसारं प्रतिदिनं कश्चित् नगरवासी स्वेच्छया असुरस्य भक्ष्यं भवेत् ।
(च) तद्दिने पर्यायेण तस्यैव ब्राह्मणपरिवारस्य बलिदानस्य वारः आसीत् ।
(ख) स्वपुत्रेषु एकं बकासुरस्य समीपं प्रेषयामि इति कुन्ती प्रतिज्ञां कृतवती ।
(क) मृष्टान्न – भाण्डसहितः बकासुरस्य समीपं गन्तुम् उद्युक्तः भवति ।

The post Class 9 Sanskrit Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः appeared first on Learn CBSE.



from Learn CBSE https://ift.tt/4Jr1Btw
via IFTTT

No comments:

Post a Comment